________________ 106 श्रीगच्छाचारप्रकीर्णकम् // __(प्र.अ.) - 'भट्ठा०' इत्यादि, भ्रष्टाचारसूरिः, भ्रष्टाचाराणां विनेयानामुपेक्षकः सूरियर्यो चोदनादिकं न ददाति, च = पुनः उन्मार्गस्थितः प्रवर्तको वा सूरिरिति त्रयः, एवं त्रयोऽपि जिनोक्तं मार्ग प्रणाशयन्ति = जिनाज्ञामुत्थापयन्ति = विराधयन्ति // 28 // (द्वि.अ.) - 'भट्ठा' इत्यादि, भ्रष्टाचारः सूरिः, भ्रष्टाचाराणां स्वशिष्याणामुपेक्षकः सूरिस्तेषां न नोदनादिकं प्रयच्छति, उन्मार्गस्थितः सूरिः, एते त्रयोऽपि मार्गं जिनानां प्रणाशयन्ति = जिनाज्ञां विराधयन्तीत्यर्थः // 28 // उम्मग्गठिए सम्मंग्गनासए जो उ सेवए सूरिं / निअमेणं सो गोअम ! अप्पं पाडेइ संसारे ||29|| उन्मार्गस्थितान् सन्मार्गनाशकान् यस्तु सेवते सूरीन् / नियमेन स गौतम ! आत्मानं पातयति संसारे // 29 / / (प्र.अ.) - 'उम्मग्ग०' इत्यादि, उन्मार्गे स्थितम्, सन्मार्गनाशकम् - जिनोक्तमार्गभेदकम् , एवंविधं सूरिं कर्मनिर्जरार्थी सन् यः पुमान् सेवते, हे गौतम ! स जीवो निश्चयेन आत्मानं संसारावटे प्रपातयति // 29 // (द्वि.अ.) - 'उम्मग्ग०' इत्यादि, उन्मार्गस्थितम्, सन्मार्गनाशकम्, य एवंविधं सूरि सेवते / हे गौतम ! स निश्चयेन आत्मानं संसारे पातयति // 29 // उम्मग्गठिओ एको वि नासएं भव्वसत्तसंघाए / तं मग्गमणुसरंतं, जह कुत्तारो नरो होइ ||30|| उन्मार्गस्थित एकोऽपि नाशयति भव्यसत्त्वसङ्घातान् / तन्मार्गमनुसरन्तं यथा कुतारो नरो भवति // 30 // (प्र.अ.) - 'उम्मग्ग०' इत्यादि, दान्तिकयोजना - एवंविधो गुरुरुपसेवते यत्कुरुते तदा उन्मार्गस्थित एकोऽपि गुरुर्मुख्यो मुख्यतां लब्ध्वा स्वोपदेशप्ररूपणादिभिरसत्यमार्गमुपदिश्य भव्यसत्त्वान् कारयति, कारयित्वा तदुपदिष्टासत्यमार्गनिरतान् भव्यसत्त्वान् - - - - - - - - - - 1. 'सम्मत्त०' E-F | 2. 'जिनोक्त भेदनाशकम्' इति A-प्रते, "जिनोक्तमार्गदेशकम्' इति C-प्रते / 3. '०ए सव्व०' F-प्रते / 4. 'मणुसरंते' A-आदिषु / 5. 'कुत्तारू' A-D-F-G-प्रतिषु /