________________ don पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् np स एव भव्यसत्त्वानां, चक्षुर्भूतो व्याहृतः / दर्शयति यो जिनोद्दिष्ट-मनुष्ठानं यथास्थितम् / / 26 / / (प्र.अ.) - ‘स एव०' इत्यादि, स एव पूर्वोक्तलक्षणाचार्यो भव्यसत्त्वानां चक्षुर्भूतो व्याहृतः = कथितः यो जिनोपदिष्टमनुष्ठानं यथास्थितम् = यथाभाषितं दर्शयति // 26 // (द्वि.अ.) - ‘स एव०' इत्यादि, स एवाचार्यो भव्यसत्त्वानां चक्षुर्भूतो व्याहृतः = कथितो यो जिनोपदिष्टमनुष्ठानं यथास्थितं दर्शयति // 26 // तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ / आणं अइक्कमंतो, सो काउरिसो, न सप्पुरिसो ||27|| तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशयति / आज्ञामतिक्रामन् सः, कापुरुषः न सत्पुरुषः // 27 / / (प्र.अ.) - 'तित्थ०' इत्यादि, तीर्थं = चातुर्वर्णसंघलक्षणं करोतीति तीर्थकृत्, तत्समम् = तत्तुल्यो भवति गुरुर्यः सम्यक् प्ररुपणया जिनमतं प्रकाशयति = प्रकटीकरोति स तीर्थंकरसमो गुरुर्ज्ञातव्यः / यो गुरुजिनाज्ञां विपरीतप्ररूपणया अतिक्रामति स गुरुर्न कथ्यते, कापुरुषः = कुत्सितपुमान्, अत एव कुगुरुः कथ्यते इति सम्बन्धः // 27 // . (द्वि.अ.) - 'तित्थय०' इत्यादि, यः सम्यक् जिनमतम् = तीर्थंकरभाषितं प्रकाशयति स तीर्थंकरसमानः सूरिः प्रोक्तः / यः पुनः तीर्थंकराज्ञाम् अतिक्रामति = उल्लंघयति स कापुरुषः कथ्यते, न तु सत्पुरुषः // 27 // भट्ठायारो सूरी 1, भट्ठायाराणुविक्खओ सूरी 2 / उम्मग्गठिओ सूरी 3, तिन्निवि मग्गं पणासंति ||28|| भ्रष्टाचारः सूरिभ्रष्टाचारोपेक्षकः सूरिः / उन्मार्गस्थितः सूरिस्त्रयोऽपि मार्ग प्रणाशयन्ति // 28 // - - - - - - - - - - - - - 1. ०णुवेक्खओ' - A-D-F-G-H-प्रतपाठः, अत्र पुनः B-C-प्रत्यनुसारेण / - - - - - - - - - - - -