________________ 103 for पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् .np पिण्डमुपधिं शय्यां, उद्गमोत्पादनैषणाशुद्धम् / चारित्ररक्षणार्थं, शोधयन् भवति सचारित्री // 21 // (प्र.अ.) - “पिंडं०' इत्यादि, चारित्रं = संयमम्, तस्य रक्षणार्थं पिण्डम् = आहारादि, उपधि = वस्त्रादि, शय्यां = पीठफलकादि उद्गमोत्पादनैषणादोष( ४२)शुद्धं शोधयन् = उत्पादयन् स चारित्रवान् भवति = चारित्रयुक्तो भवति // 21 // (द्वि.अ.) - “पिंडं०' इत्यादि, निजचारित्ररक्षणार्थं पिण्डम्, उपधिं, शय्यामुद्गमोत्पादनैषणादिदोषशुद्धं शोधयेत् = उत्पाद्य परिहरन् यो वर्त्तते स चारित्रवान् भवतीति // 21 // अपरिस्सावि सम्मं, समपासी चेव होइ कज्जेसु / सो रक्खइ चक्टुं पिव, सबाल-वुड्ढाउलं गच्छं / / 22 / / अपरिश्रावी सम्यक्, समदर्शी चैव भवति कार्येषु / स रक्षति चक्षुरिव, सबालवृद्धाकुलं गच्छम् / / 22 / / (प्र.अ.) - 'अपरि०' इत्यादि, सम्यग् अपरिश्रावी सर्वकार्येषु समदृष्टिर्भवति चक्षुरिव सबालवृद्धाकुलं गच्छं रक्षति इति गाथार्थः // 22 // (द्वि.अ.) - 'अपरि०' इत्यादि, सम्यग् अपरिश्रावी सर्वकार्येषु समदृष्टिर्भवति स आचार्यश्चक्षुरिव सबालवृद्धाकुलं गच्छं रक्षतीति योगः // 22 // सीयावेइ विहारं, सुहसीलगुणेहिं जो अबुद्धीओ / सो नवरि लिंगधारी, संजेमजोएण णिस्सारो ||23|| सीदयति विहारं सुखशीलगुणैर्योऽबुद्धिकः / स नवरि लिङ्गधारी संयमयोगेन निस्सारः // 23 // (प्र.अ.) - 'सीआ०' इत्यादि, यो = गुरुर्विहारेऽप्रतिबद्धो गवचरणलक्षणे शीतलो हि प्रमादतः सुखशीलो भवति / सुखशीलगुणैर्योऽज्ञानो = ज्ञानरहितः सन् स नवरं = केवलं लिंगधारी कथ्यते, स संयमसारेणासारः प्रोच्यते // 23 // 1. 'सम्यग् परिश्रावी' इति B-C-प्रतपाठः / 2. 'संजमसारेण नि०' E-F-प्रतपाठः - - - - - - -