________________ 102 0 श्रीगच्छाचारप्रकीर्णकम् // कैः कैः प्रतिबोधयति वचनैरिति ? तदाह - तुम्हारिसावि मुणिवर !, पमायवसगा हवंति जइ पुरिसा / तेणऽन्नो को अम्हं, आलंबण हुज्ज संसारे ? ||19|| युष्मादृशा अपि मुनिवर ! प्रमादवशगा भवन्ति यदि पुरुषाः / तेनान्यः कोऽस्माकमालम्बनं भविष्यति संसारे ? // 19 // (प्र.अ.) - 'तुम्हा०' इत्यादि, हे मुनिवर ! युष्मादृशा अपि महद्गुणवन्तो महानुभागाः पूज्याः पुरुषाः प्रमादवशगाः = प्रमादगमनशीला यदि भवन्ति तदा चान्यः को गुरुरस्मादृशां पुरुषाणामस्माकं वा आलम्बनं संसारावटपतनरज्जुकोऽस्मिन्संसारे ? // 19 // (द्वि.अ.) - 'तुम्हा०' इत्यादि, हे मुनिवर ! = साधुश्रेष्ठ ! युष्मादृशा अपि मुनयः पुरुषाः = विदितसकलतत्त्वा यदि प्रमादवशगाः = प्रमादिनो भवन्ति / तदाऽन्यः कोऽस्माकं मन्दधर्माणामालम्बनं भवे = संसारे पततामिति गम्यम् // 19 // नाणंमि दंसणंमि य, चरणमि य तिसु वि समयसारेसु | चोएइ जो ठवेउं, गणमप्पाणं च सो अ गणी ||20|| ज्ञाने दर्शने च चरणे च त्रिष्वपि समयसारेषु / नोदयति यः स्थापयितुं, गणमात्मानं च स च गणी // 20 // (प्र.अ.) - 'नाणं०' इत्यादि, ज्ञानदर्शनचारित्रेष्वपि समयसारेषु गच्छमात्मानं च स्थापयितुं प्रेरयति स आचार्यः कथ्यते // 20 // (द्वि.अ.) - 'नाणंमि०' इत्यादि, ज्ञाने दर्शने चारित्रे त्रिष्वपि समयसारेषु गणमात्मानं च स्थापयितुं प्रेरयति स आचार्यः कथ्यते इति गाथार्थः // 20 // पिंडं उवहिं सिज्जं, उग्गमउप्पायणेसणासुद्धं | चारित्तरक्खणट्ठा, सोहिंतो होइ सचरित्ती ||21|| - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'तो को अन्नो' A-D-E-F-H, अत्र पुनः B-C-G-प्रतपाठः / 2. 'तिसु य' F-प्रते / 3. 'पयित्वाप्रे०' इति A-प्रते /