________________ open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // 101 उपलिम्पेत् = अत्यंतबाह्यहितं करोति, सम्यग्मार्ग न ग्राहयति = सत्यमार्ग न शिक्षापयति तमाचार्यं वैरिणं जानीहि // 16 // जीहाए विलिहतो, न भद्दओ सारणा जहिं नत्थि / दंडेण वि ताडतो, स भद्दओ सारणा जत्थ ||17|| जिह्वया विलिहन् न भद्रकः सारणा यत्र नास्ति / दण्डेनापि ताडयन् स भद्रकः सारणा यत्र // 17 // (प्र.अ.) - 'जीहा०' इत्यादि, जिह्वया विलिहन् = अत्यंतबाह्यहितं कुर्वन् आचार्यो भद्रो न भवति, यत्र गच्छे सारणा न भवति / दण्डेनापि ताडयन् स आचार्यो भद्रो = मनोहरो यत्र सारणाऽस्ति // 17 // (द्वि.अ.) - 'जीहा०' इत्यादि, जिह्वया विलिहन् आचार्यो भद्रो = सुंदरो न भवति, यत्र गच्छे सारणा नास्ति / दण्डेनापि ताडयन् स आचार्यो भद्रो = मनोहरो यत्र सारणास्ति // 17 // सीसोवि वेरिओ सो उ, जो गुरुं नवि बोहए। पमायमइराघत्थं, सामायारीविराहयं / / 18 / / शिष्योऽपि वैरी स तु यो गुरुं न विबोधयति / * प्रमादमदिराग्रस्तं, सामाचारीविराधकम् // 18 // (प्र.अ.) - 'सीसोवि०' इत्यादि, यः शिष्यः प्रमादमदिरया = आलस्यसुरया ग्रस्तं गुरुं स्वधर्माचार्यं न बोधयेत् = न प्रतिबोधयेत् स शिष्यो गुरूणां वैरी = रिपुसमो भण्यते / गुरुं किम्भूतम् ? सामाचारीविराधकम् सामाचारी = दशधा ओघरूपा च तस्या विराधकम् // 18 // (द्वि.अ.) - 'सीसोवि०' इत्यादि, स तु शिष्योऽपि वैरीत्युच्यते यः प्रमादमदिराग्रस्तम्, सामाचारीविराधकं स्वकगुरुं न बोधयति = न सन्मार्गे स्थापयतीति // 18 // - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'स्मारणा' इति A-B-C-प्रते / 2. 'मनोहरो न भवति' इति A-प्रते / 3. 'मयरा०' F-प्रते / 4. 'न दोषयति०' इति B-प्रते /