SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 100 for श्रीगच्छाचारप्रकीर्णकम् ng. (द्वि.अ.) - 'देस०' इत्यादि, आचार्यो देशम्, क्षेत्रं तु ज्ञात्वा वस्त्रम्, पात्रम्, उपाश्रयं, साधुवर्गं चैतानि संगृह्णीयात् = संग्रहं कुर्यात्, च = पुनः सूत्रार्थचिन्तनं करोति // 14 // संगहोवग्गहं विहिणा, न करेइ अ जो गणी / समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ||15|| संग्रहोपग्रहं विधिना, न करोति च यो गणी। श्रमणं श्रमणीं तु दीक्षित्वा, सामाचारी न ग्राहयेत् // 15 // (प्र.अ.) - 'संगहो०' इत्यादि, 'संग्रहोपग्रहम्' संग्रहम् = वस्त्राद्युपकरणमीलनम् उपग्रहम् = वस्त्राद्युपकरणरक्षणं विधिना आचार्यो गच्छार्थं न करोति, श्रमणं श्रमणी तु दीक्षयित्वा सम्यग्भारमारोप्य सम्यग्मार्ग न ग्राहयति = सत्यमार्गं न शिक्षापयति इति गाथार्थः // 15 // (द्वि.अ.) - 'संग०' इत्यादि, 'संग्रहोपग्रहम्' संग्रहो = वस्त्रादिमीलनम् उपग्रह च वस्त्रादीनां संरक्षणं विधिना च आचार्यों गच्छार्थं न करोति, श्रमणं श्रमणी तु दीक्षयित्वा सामाचारी न ग्राहयति = न शिक्षयति // 15 // बालाणं जो उ सीसाणं, जीहाए उवलिंपए / न सम्ममग्गं गाहेइ, सो सूरी जाण वेरिओ ||16|| बालानां यः पुनः शिष्याणां, जिह्वया उपलिम्पेत् / न सम्यग् मार्ग ग्राहयति, स सूरिर्जानीहि वैरी // 16 // (प्र.अ.) - ‘बालाणं०' इत्यादि, बालानां शिष्याणां च पुनः यः = आचार्यो जिह्वयोपलिम्पयेत् कोऽर्थः ? अत्यंतबाह्यहितं करोति, यस्तु सम्यग्मार्गं न ग्राहयति = अवितथपथं न शिक्षापयति तमाचार्यं गच्छं निर्वाहन्तमपि वैरिकं जानीहि = रिपुसमानं जानीहि // 16 // (द्वि.अ.) - ‘बालाणं०' इत्यादि, बालानां शिष्याणां पुनर्यो आचार्यो जिह्वया - - - 5. 'विधिना गच्छार्थं.' इति A-प्रते / - - - - - - - - - - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy