SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ __ _99 open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् . . दृष्टान्तमाह - जह सुकुसलोऽवि विज्जो, अण्णस्स कहेइ अत्तणो वाहिं / विज्जुवएसं सुच्चा, पच्छा सो कम्ममायरइ ||13|| यथा सुकुशलोऽपि वैद्योऽन्यस्य कथयति आत्मनो व्याधिम् / वैद्योपदेशं श्रुत्वा, पश्चात् स कर्म आचरति // 13 / / (प्र.अ.) - 'जह०' इत्यादि, यथा कुशलोऽपि वैद्यः आत्मनो व्याधिमन्यस्य कथयति स वैद्योपदेशं श्रुत्वा पश्चात् स = वैद्यः प्रतिकारं वैद्यकर्म करोति / ज्ञाततत्त्वार्थो हि गुरुपायें सम्यगवगमनेशीलो भवति / अत्रोपनयः - वैद्यसमो गुरुः पापेशल्यसमो व्याधिः स त्वन्यगुरून्निवेद्य पश्चात् स्वयं निर्व्याधिर्भवति, तदनुज्ञातशल्योद्धरणोऽन्यान्निाधीन् करोतीत्यर्थः // 13 // (द्वि.अ.) - 'जह०' इत्यादि, यथा सुष्ठ = अतिशयेन कुशलोऽपि वैद्य आत्मनो व्याधिमन्यस्य कथयति स च वैद्यो वैद्योपदेशं श्रुत्वा पश्चाद् वैद्यकर्म आचरति // 13 // देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं / संगहे साहुवग्गं च, सुत्तत्थं च निहाँलई ||14|| देशं क्षेत्रं तु ज्ञात्वा वस्त्रं पात्रं उपाश्रयं / संगृह्णीत साधुवर्गं च, सूत्रार्थं च निभालयति // 14 // (प्र.अ.) - 'देस०' इत्यादि, निपुणो ज्ञाततत्त्व आचार्यो देशम्, क्षेत्रं तुशब्दात् कालभावपरिग्रहः, तद् ज्ञात्वाऽपि = विपश्य शेमुषीलोकनेन वस्त्रम्, पात्रम्, उपाश्रयं, साधुवर्गं च एतानि संगृह्णीयात् = संग्रहं कुर्यात् चशब्दात् सूत्रार्थस्य च चिन्तनं करोति नित्यम् // 14 // - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - 1. 'विज्जोवएस सोच्चा' F-प्रते / 2. 'गमनो भवति' इति A-प्रते / 3. '०पापसमो०' इति A-प्रते / 4. '०ाधीकरो०' इति A-B-प्रते / 5. 'खेत्तं' D-E-F-G-H, अत्र B-C-प्रतपाठः, 'खित्त' A-प्रते / 6. 'निहालिउं' F-G / 7. 'साधवर्गं साध्वीवर्गं चैतानि०' इति C-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy