SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 96 6. श्रीगच्छाचारप्रकीर्णकम् // जन्मान्तरकृतम् = बहुभवोपार्जितं पापं प्राणी = जीवः मुहूर्त्तमात्रेण कालेन निर्दहेत् = ज्वालयेदिति सम्बन्धः // 6 // (द्वि.अ.) - 'वीरिए०' इत्यादि, जीवस्य वीर्येण समुच्छलितेन हे गौतम ! जन्मान्तरकृतं पापं प्राणी मुहूर्त्तमात्रेण निर्दहेत् = ज्वालयेत् // 6 // तम्हा निउणं निहालेउ, गच्छं सम्मग्गपट्टि / वसिज्ज तत्थ आजम्मं, गोयमा ! संजए मुणी ||7|| तस्मान्निपुणं निभाल्य, गच्छं सन्मार्गप्रस्थितम् / वसेत्तत्र आजन्म गौतम ! संयतो मुनिः // 7 // (प्र.अ.) - 'तम्हा०' इत्यादि, तस्मान्निपुणं निभाल्य = विलोक्य गच्छं सन्मार्गप्रस्थितं वसेत् = अवतिष्ठेत् तत्र = गच्छे आजन्ममिति = यावज्जन्म यावज्जीवमिति हे गौतम ! संयतो मुनिः = सत्क्रियासाधुरिति गाथार्थः // 7 // (द्वि.अ.) - 'तम्हा०' इत्यादि, तस्मान्निपुणं विलोक्य गच्छं सन्मार्गप्रतिष्ठितं वसेत् तत्र यावज्जीवं हे गौतम ! संयतो मुनिः = सत्क्रियासाधुरिति // 7 // मेढी आलंबणं खंभं, दिट्ठी जाणं सुउत्तिमं / सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ||8|| मेढिरालम्बनं स्तम्भो दृष्टिर्यानं सुयुक्तिमान् / सूरिर्यस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत // 8 // (प्र.अ.) - 'मेढी०' इत्यादि, मेढीति कोऽर्थः ? खलके यत्र स्तम्भिकामुत्क्षिप्य वृषान् वाहयन्ति सा मेढी तद्वद् आलम्बनम् = आधारभूतः, स्तम्भो = गृहभारधारकः, दृष्टिः = सर्ववस्तुप्रकाशकात्मा, यानम् = यानपात्रं जलधौ, तद्वदुत्तममिति सर्वत्र योज्यम्, एवंविधः सूरिर्यत्र गच्छे भवेत्, तस्माद् गच्छं तमाचार्यं च परीक्षयेत् प्रज्ञावान् इति गाथार्थः // 8 // (द्वि.अ.) - 'मेढी०' इत्यादि, मेढी = खलकमध्यवर्तिनी स्थूणा, आलम्बनम् = 1. 'सुउत्तम' पूर्वमुद्रिते / 2. 'सूरी उ' F-प्रते / -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy