________________ 97 open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् np रज्ज्वादिः, स्तम्भो दृष्टिर्यानं सूत्तममिति प्रतीतम्, एतच्च सर्वत्र योज्यम्, एवंविधः सूरिर्गच्छस्य भवति, तस्मात् तम् = आचार्यं परीक्षयेत् = परीक्षां कुर्यादिति गाथार्थः // 8 // भयवं ! केहि लिंगेहि, सूरिं उम्मग्गपट्ठियं / वियाणिज्जा छउमत्थे, मुणी ! तं मे निसामय ||9|| भगवन् ! कैलिङ्गः, सूरिमुन्मार्गप्रस्थितम् / विजानीयात् छद्मस्थः, मुने ! तन्मे निशामय // 9 // (प्र.अ.) - 'भयवं०' इत्यादि, शिष्यः पृच्छति-हे भगवन् ! कैः कैः लिङ्गै = चिह्नः उन्मार्गप्रस्थितं सूरिं सन्मार्गप्रस्थितं च छद्मस्थो मुनिः कथं जानीयादित्युक्ते गुरुराह - हे मुने ! तत् = चिह्नं मम = कथयतस्त्वं शृणु निर्गमवाक्यम् // 9 // (द्वि.अ.) - 'भयवं०' इत्यादि, हे भगवन् ! कैलिङ्गैः = कैश्चिद्वैरुन्मार्गप्रतिष्ठितं सन्मार्गप्रस्थितं च छद्मस्थः कथं जानीयात् ? तच्चिह्नानि मम कथयतः शृणु // 9 // सच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं / पीढयाइपडिबद्धं, आउकायविहिंसगं ||10|| स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम् / - पीठकादिप्रतिबद्धं, अप्कायविहिंसकम् // 10 // (प्र.अ.) - 'सच्छंद०' इत्यादि, स्वच्छन्दचारिणम्, दुःशीलम् = दुराचारं दुष्टाचारम्, षड्विधजीवारम्भेषु प्रवर्तकम्, पीठफलकादिप्रतिबद्धम्, आदिशब्दात् शय्यासनवस्त्रपात्रपरिग्रहः, तेषु प्रतिबद्ध इति कोऽर्थः ? वर्षाकालं विनापि उपभुङ्क्ते, तम्, अप्कायं सचित्तं विराधयतीति अप्कायविराधकः स्वार्थे कप्रत्यय एवंविधम् // 10 // ___ (द्वि.अ.) - 'सच्छं०' इत्यादि, स्वच्छंदश्चारिणम्, दुःशीलम् = दुराचारम्, आरम्भेषु प्रवर्तकम्, पीठफलकादिप्रतिबद्धम् ऋतुबद्धेष्वपि, सचित्ताप्कायविहिंसकम् // 10 // - - - - - - - - - - - - - - 1. 'कथय / यतस्त्वं०' इति A-प्रते /