________________ of on पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् ng लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य / पश्यतः अन्येषां महानुभागानां साधूनाम् // 4 // उत्साहरहितस्य विमनस्कस्य = शून्यचित्तस्य अन्येषां प्रेक्षया विलोकया = विलोकनेन महानुभागानां साधूनाम् // 4 // (द्वि.अ.) - 'लीला०' इत्यादि, लीलया अलसमानस्य = आलस्यं कुर्वाणस्य उत्साहरहितस्य विमनस्कस्य = शून्यचित्तस्य अन्येषां प्रेक्षया = परस्परविलोकनेन महानुभागानां साधूनाम् // 4 // उज्जमं सव्वथामेसु, घोरवीरतवाइअं / लेज्जं संकं अइक्कम्म, तस्स वीरिअं समुच्छले ||5|| उद्यमं सर्वस्थामसु, घोरवीरतपः-आदिकं / लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् // 5 // (प्र.अ.) - 'उज्जमं०' इत्यादि, उद्यमं सर्वस्थामसु = क्रियासु, किंविशिष्टम् ? घोरवीरतपःप्रमुखं दृष्ट्वा तस्य = सुखशीलस्यापि पुरुषस्य वीर्यं समुच्छलेदिति, सोऽपि क्रियापरो भवतीति गाथार्थः // 5 // __ (द्वि.अ.) - 'उज्जमं०' इत्यादि, उद्यमं सर्वस्थामसु = सर्वक्रियासु, किम्भूतमुद्यमम्? घोरवीरतपःप्रमुखं दृष्ट्वा लज्जाशंकामतिक्रम्य तस्य = सुखशीलस्यापि पुरुषस्य वीर्यं समुच्छलेत् = सोऽपि शुद्धक्रियां कुर्यादिति गाथार्थः // 5 // वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा!। जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ||6|| वीर्येण तु जीवस्य समुच्छलितेन गौतम ! / जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् // 6 / / (प्र.अ.) - 'वीरिए०' इत्यादि, तस्य जीवस्य वीर्येण समुच्छलितेन हे गौतम ! 1. 'अनलस०' इति C-प्रते / 2. 'ईसक्का संक भय लज्जा तस्य' F-प्रते, ‘इकासंत भय लज्जा तस्स' G प्रते /