SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ on श्रीगच्छाचारप्रकीर्णकम् ng सन्त्येके गौतम ! प्राणिनः ये उन्मार्गप्रतिष्ठिते / गच्छे संवस्य भ्रमन्ति भवपरम्पराम् // 2 // ___(प्र.अ.) - 'अत्थेगे' इत्यादि, हे गौतम ! अत्र = अस्मिन् संसारे एके = केचित् प्राणिनः सन्तीति ये प्राणिनः उन्मार्गे प्रतिष्ठिते = उन्मार्गगामिनि गच्छे = बहुसमुदायरूपे वासं = निवासं कृत्वा भवपरम्परां भ्रमन्ति = पर्यटन्तीति गाथार्थः // 2 // (द्वि.अ.) - 'अत्थेगे' इत्यादि, हे गौतम ! एके = केचित् प्राणिनः सन्ति, ये उन्मार्गप्रतिष्ठिते = उन्मार्गगामिनि गच्छे वासं कृत्वा भवपरम्परां = जन्मपरम्परां भ्रमन्ति // 2 // अतो हेतोर्यत् क्रियते तदाह - जामद्ध जाम दिण पक्खं, मासं संवच्छरंपि वा / सम्मग्गपट्टिए गच्छे, संवसमाणस्स गोयमा ! ||3|| यामार्धं यामं दिनं पक्षं, मासं संवत्सरमपि वा। सन्मार्गप्रस्थिते गच्छे, संवसमानस्य गौतम ! // 3 // (प्र.अ.) - 'जामद्ध' इत्यादि, यामः = प्रहरः तस्यार्द्धम् यामार्द्धम् = चतुर्घटिकारूपम्, यामम् = प्रहरम्, यावद् दिनम् = अहोरात्रम्, पक्षम् = पञ्चदशाहोरात्ररूपम्, मासम् = पक्षद्वयमानम्, संवत्सरं = मासद्वादशमानम्, चशब्दाद् बहुदिनमपि संवसमानस्य पुरुषस्य // 3 // (द्वि.अ.) - 'जामद्ध' इत्यादि, यामाद्धम् = चतुर्घटिकं, प्रहरम्, दिनम् = अहोरात्रम्, पक्षम्, मासम्, संवत्सरमपि च, सन्मार्गप्रतिष्ठिते गच्छे संवसमानस्य पुरुषस्य // 3 // लीला अलसमाणस्स, निरुच्छाहस्स वीमणं / पिक्खविक्खाइ अन्नेसिं, महाणुभागाण साहुणं ||4|| - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- 1. 'चतुर्थः' इति A-प्रते / 2. 'पक्खाविक्खीइ' A-D प्रतपाठः / 'पिक्खाविक्खिइ' B-C-प्रतपाठः / "पेक्खाविक्खिइ' E-F-प्रतपाठः / 'पेक्खोविक्खाइ' H-प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy