SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ // श्रीशङ्केश्वरपार्श्वनाथाय नमः॥ // तस्स भुवणेक्कगुरुणो णमो अनेगंतवायस्स // // परमपूज्यसुविहितश्रुतस्थविरपरम्परायै नमः // // तपागच्छाचार्यश्री-प्रेम-भुवनभानु-जयघोष-जितेन्द्र-गुणरत्न-रश्मिरत्नसूरिसद्गुरुभ्यो नमः // पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् ॥श्रीगच्छाचारप्रकीर्णकम् / / आदौ शास्त्रकारः स्वेष्टदेवतां नमस्कुर्वन् ग्रन्थमारभते - नमिऊण महावीरं, तियसिंदनमंसिरं महाभागं / गच्छाचारं किंची, उद्धरिमो सुअसमुद्दाओ ||1|| नत्वा महावीरं त्रिदशेन्द्रनमस्यितं महाभागम् / गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् // 1 // प्रथमावचूरिः . - 'नमिऊण' इत्यादि, श्रीवीरं विशेषेण ईरयत्यष्टप्रकारं कर्मेति वीरस्तम्, अथवा वीरः = सुभटः कर्मरिपूणां मर्दने तं श्रीवीरजिनेन्द्रं नत्वा, किम्भूतम् ? त्रिदशेन्द्रैः = देवेन्द्रनमस्कृतम्, पुनः किम्भूतम् ? महाभागं महानुभावं वा महातिशयशालिनम्, एवंविधं चरमतीर्थपतिं नत्वा गच्छाचारं = गणाचारं किञ्चिद् = स्वल्पमात्रमपि वयमुद्धरामः, कुतः ? श्रुतसमुद्रात् = सिद्धान्तार्णवादिति सम्बन्धः // 1 // द्वितीयावचूरिः - श्रीवीरपादाम्बुजयुग्ममादावानन्दतो हर्षकुलः प्रणम्य / शब्दावचूर्णि प्रकरोति गच्छाचारप्रकीर्णकस्य सुबोधनार्थं // 'नमि०' इत्यादि, श्रीवीरं नत्वा, किम्भूतम् ? त्रिदशेन्द्रनमस्कृतम्, महाभागं = महातिशयशालिनम्, श्रुतसागराद् गच्छाचारं किञ्चिदुद्धरामो वयमिति // 1 // अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्ठिए / गच्छम्मि संवसित्ताणं, भमई भवपरंपरं ||2||
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy