________________ 90 for श्रीगच्छाचारप्रकीर्णकम् nga - "दसविहे अंतलिक्खिए असज्झाइए पण्णत्ते, तं जहा-उक्कावाए 1 दिसिदाहे 2 गज्जिए 2 विज्जुए 4 निग्याए 5 जूवए 6 जक्खालित्तए 7 धूमिय 8 महिया 9 रयउग्घाए 10" [स्था० १०/सू० 714] इदं सूत्रम्, अस्य वृत्तिः-'अंत०' आकाशभवं 'अस०' अवाचनादि, दिग्विभागे महानगरप्रदीपनकमिव य उद्द्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाहः 2, 'निर्घातः' साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः 5, सन्ध्याप्रभा चन्द्रप्रभा च यत्र युगपद् भवतस्तत् 'जूयगो'त्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्याऽपगच्छतीति न ज्ञायते / श्रुतस्य=महानिशीथकल्पादेः सिद्धान्तस्य निःस्यन्दं सारभूतं बिन्दुभूतं वा सुष्ट-अतिशयेन उत्तमं 'सूत्तमं' प्रधानतमं तदुक्तक्रियाकरणेन मोक्षगमनहेतुत्वादिति // 136 // किञ्च - गच्छायारं सुणित्ताणं, पठित्ता भिक्षुभिक्षुणी / कुणंतु जं जहाभणियं इच्छंता हियमप्पणो ||137|| गच्छाचारं श्रुत्वा पठित्वा भिक्षवः भिक्षुण्यः / कुर्वन्तु यद्यथा भणितमिच्छन्तः हितमात्मनः // 137 // // इति गच्छाचारप्रकीर्णकसूत्रम् // व्याख्या - एनं 'गच्छाचारं' सत्साधुगणमर्यादारूपं 'श्रुत्वा' सद्गुरुभ्योऽर्थमाकर्ण्य 'पठित्वा' मोक्षमार्गसाधकसाधुपार्वे योगोद्वहनविधिना सूत्रं गृहीत्वा 'साधवः' मुमुक्षवः 'भिक्षुण्यः' व्रतिन्यश्च 'कुर्वन्तु' निष्पादयन्तु यद् यथाऽत्र भणितं तत्तथेति ‘इच्छन्तः' वाञ्छां कुर्वन्तः 'हितं' पथ्यं, कस्य? आत्मनः // 137 // इतिश्रीविजयदानसूरिविजयमानराज्ये भव्यसुमनःसुमनस्सुपतीनां दुष्टदुःखाकुलदुर्जटस्थिरजिह्वव्याप्तनिर्दयदुर्बोधज्ञानान्धकुगुरुवचनोपदेशाग्निधूम्रश्याममुखोत्सूत्रवारुण्यपवित्रास्यकुमतिकुवासनावेलाभयङ्करकलहपङ्कबहुलकुराजगद्मदुश्चारकुसाधु