SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ of on श्रीवानर्षिगणिविहितवृत्तियुतम् / तेषां ग्रन्थः-"इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किंतु इह सुत्ते पत्तेयबुद्धपणीयं पइण्णगं भाणियव्वं, कम्हा?, जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ, भणियं-पत्तेयबुद्धावि तत्तिया चेव"त्ति, चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ?, आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवंती"ति / अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, ‘से त'मित्यादि, तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति [नन्दी० सू० ४४-वृत्तौ] // 135 // पढंतु साहुणो एयं, असज्झायं विवज्जिउं / उत्तमं सुयनिस्संदं, गच्छायारं सुउत्तमं ||136 / / पठन्तु साधवः एतद् अस्वाध्यायिकं विवर्ण्य / उत्तमं श्रुतनिस्यन्दं गच्छाचारं सूत्तमम् // 136 / / ___व्याख्या - 'पठन्तु' व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु 'साधवः' मोक्षसाधनतत्परमुनयः, उपलक्षणत्वात् साध्व्योऽपि / ननु यदुक्तं साधुसाध्व्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ?, उच्यते-न पठन्त्येव, यदुक्तं श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते-"जे भिक्खू वा भिक्खुणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वाएंतं वा साइज्जइ" [नि० 19/27] ___ अस्य चूर्णि:-गिही अण्णतित्थिया वा ण वाएयव्वा, इत्थ दसमउद्देसाओ अत्थो जहा-"अण्णउत्थियं वा गारत्थियं वा वायति अण्णतिथिगा अण्णतित्थिणीओ अहवा गिहत्था गिहत्थीओत्ति, भवे कारणं वाएज्जावि, 'पव्वज्जाए' गाहा, गिहि अण्णपासंडि वा पव्वज्जाभिमुहं सावगं वा छज्जीवणियंति जाव सुत्तत्थो अत्थओ जाव पिंडेसणा, एस गिहत्थाइसु अववाओ" [नि० भा० ६२६४-चूर्णी] त्ति / तथा 'एयंति एनं गच्छाचारं पूर्वोक्तशब्दार्थं, किं विधाय ?-'अस्वाध्यायं' अपठनप्रस्तावं स्थानाङ्गोक्तं 'वर्जयित्वा' परित्यज्य, स्थानाङ्गोक्ता अस्वाध्याया यथा
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy