SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ~ fe श्रीवानर्षिगणिविहितवृत्तियुतम् .. 83 'साधुना' मुख्यगुरुणा अन्येन मुनिना वा 'सार्द्ध' साकं प्रकर्षेण लोकसमक्षमसमक्षं वा यथा वाक्यं लपन्ति वदन्ति, किंभूताः?-सु-अतिशयेन रुष्टाः= कोपचाण्डालत्वं प्राप्ताः 'सुरुष्टाः' अत्यन्तकोपगता इत्यर्थः, अपिशब्दादल्परुष्टा अपि हे गौतम ! किं 'तेन' अधमरूपेण 'गच्छेन' मुण्डीवृन्देनेति // 129 // जत्थ य गच्छे गोयम ! उप्पण्णे कारणंमि अज्जाओ। गणिणीपिट्ठिआओ, भासंती मउअसद्देण ||130|| यत्र च गच्छे गौतम ! उत्पन्ने कारणे आर्याः / गणिनीपृष्टिस्थिता भाषन्ते मृदुकशब्देन // 130 / / व्याख्या - यत्र च 'गच्छे' गणे हे गौतम ! 'उत्पन्ने' प्रादुर्भूते 'कारणे' ज्ञानदर्शनचरणानामन्यतरस्मिन् कार्ये 'आर्याः' लघुसाध्व्यः गणिनी मुख्यसाध्वी तस्याः पृष्ठिस्थिताः पश्चाद्भागे व्यवस्थिताः ‘भाषन्ते' जल्पन्ति, केन ? - 'मृदुकशब्देन' अल्पउँनिर्विकारवाक्येन स्थविर-गीतार्थादिसार्द्धमिति / 'पट्ठिवियाउ'त्ति पाठे तु गणिन्या प्रस्थापिता:=प्रेषिताः सत्यो 'मृदुकशब्देन' विनयपूर्वकवचनकथनेन भाषन्ते स गच्छ इति // 130 // माऊए दुहियाए, सुण्हाए अहव भइणिमाईणं / जत्थ न अज्जा अक्खइ, गुत्तिविभेयं तयं गच्छं / / 131 / / मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनाम् / यत्र न आर्या आख्याति गुप्तिविभेदं स गच्छः // 131 // व्याख्या - 'मातुः' जनन्याः 'दुहितुः' सुतायाः पुत्रस्य वाऽपत्यं, 'स्नुषायाः' वधूट्याः, अथवा भगिन्यादीनां 'यत्र' गणे न 'आर्या' भिक्षुणी 'आख्याति' कथयति 'गुप्तिविभेदं' नाम प्रकारं, कोऽर्थः ? - कारणं विना स्वपरवर्गे वदति ममेयं माता ममेयं दुहितेत्यादि, यदि वा अहमस्यास्या वा माता अहमस्यास्या वा दुहिता अहमस्य वधूटीत्यादि न जल्पति स गच्छ इति, यद्वा मात्रादीनां गुप्तेः किमपि गोप्यस्य लोकावाच्यरूपस्य नाख्याति साध्वी स गच्छ इति // 131 // 1. 'भयणि०' E-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy