________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् .. सम्बन्धिसंस्तवभेदात्, एकैको द्विधा पूर्वपश्चाद्भावित्वात्, तत्र दानात्पूर्वं पश्चाद्वा गुणान् यत्र स्तौति स गुणसंस्तवः, सम्बन्धिसंस्तवस्तु जननीजनकभ्रातृभगिन्यादिपूर्वकालभावित्वात् पूर्वः, श्वश्रूश्वशुरकलत्रपुत्रादिपश्चात्कालभावित्वात्पश्चात्संस्तवः, आत्मपरतारुण्यादिलक्षणं वयो ज्ञात्वा तदनुरूपं यत् श्वेतपट्यः सम्बन्धं कुर्वन्ति स सम्बन्धिसंस्तवस्तं संस्तवं 'करंतीउ'त्ति कुर्वन्त्यस्ताः साध्व्यो न भवन्तीति // 126 // समा सीस-पडिच्छीणं, चोअणासु अणालसा / गणिणी गुणसंपन्ना, पसत्थपरिसाणुगा ||127|| समाः शिष्यप्रातीच्छिकानां चोदनासु अनालस्याः / गणिन्यो गुणसम्पन्नाः प्रशस्तपरिषदनुगताः // 127 / / व्याख्या - 'समाः' तुल्या भवन्ति, रागद्वेषपरिणामाभावात् 'सीस'त्ति स्वशिष्याः =स्वसङ्घाटिका इत्यर्थः, प्रतीच्छिकाश्च स्वपरगच्छात् ज्ञानवैयावृत्त्याद्यर्थमागतास्तासां तासु वेति, 'चोयणासु'त्ति नोदनादिषु पूर्वोक्तशब्दार्थेषु 'अनालस्याः' सर्वथाऽऽलस्यरहिताः, गुणाः ज्ञानदर्शनचारित्ररूपास्तैः संपन्नाः समन्विताः, प्रशस्ताक्षमाविनयवैयावृत्त्यादिगुणयुक्तत्वात् परिषत्=परिवाररूपा तयाऽनुगताः सदा संयुक्ताः, एवंविधो गण: साध्वीपरिवाररूपो विद्यते यासां ता गणिन्यो=मुख्यसाध्व्यो भवन्तीति // 127 // संविग्गा भीयपरिसा य, उग्गदंडा य कारणे | सज्झाय-झाणजुत्ता य, संगहे अ विसारया ||128 / / संविग्ना भीतपर्षदश्च उग्रदण्डाश्च च कारणे / स्वाध्यायध्यानयुक्ताः सङ्ग्रहे च विशारदाः // 128 // व्याख्या - 'संविग्नाः' परमसंवेगरसलीनाः भीता=भयं प्राप्ता परिषत्=परिवारो यासां ताः भीतपरिषदः, यद्वा भीता स्वपरसङ्घाटिकया सह कलहादिकरणेन भयं गता परिषद् यासां तास्तथा, यद्वा भयमिहलोकभयं स्वगुरुगुरुणां गणकुलजात्यादीनामपकीर्तिलक्षणं परलोकभयं=महाव्रतदूषणलक्षणं परिषदि परिवारे यासां 1. 'पुरिसाणुगा' पूर्वमुद्रिते, अत्र E-H-आदिप्रतपाठः / - - - - - - - -