________________ 80 6. श्रीगच्छाचारप्रकीर्णकम् // - व्याख्या - खरघोटकादिस्थाने व्रजन्ति साध्व्यः, तत्र खरशब्देन दासप्रायः, यदुक्तमोघनिर्युक्तौ-"खरउ ढ्यक्षरो दासप्रायः व्यक्षरिका दासी"ति, घोटकशब्देन द्यूतकारादिधूर्ताः, यदुक्तं निशीथचूर्णी-“घोडेहिं गाहा-घोडा वट्ठा जूयकरादिधुत्ता" इति, आदिशब्दादन्येऽपि तादृशा ग्राह्याः, तथा 'तेऽपि' खरघोटकादयः 'तत्र' आर्यास्थाने व्रजन्ति, अकालसकाले आगच्छन्तीत्यर्थः, वाशब्दात् परोक्षे ते ताभिः सह ता वा तैः सह दोहकगाथादिमुत्कलनेन परिचयं कुर्वन्तीति, तथा 'उपाश्रयसमीपे' साध्वीवसतिपार्वे वेश्या स्त्री तस्याः, यद्वा वेश्योना तत्सदृशा याः स्त्रियस्तासां, यद्वा वेश्यायाः स्त्री दासीलक्षणा तस्याः, यद्वा वेश्या या स्त्री नटपुरुषमेलापकलक्षणा तस्याः, वेश्या स्त्री तत्पुत्रीलक्षणा तस्या वा, अथवा वेषस्त्री योगिन्यादिवेषधारिका तस्याः, यदि वा वेषस्य रजोहरणादिद्रव्यलिङ्गस्य अर्थः उदरपूरणमुग्धवञ्चनादिप्रयोजनं वेषार्थः, स च विद्यते यस्यासौ वेषार्थी, सर्वभ्रष्टाचारी साधुरित्यर्थः, आर्षत्वाद्दीर्घः, तस्य संसर्गो भवति हे गौतम ! साऽऽर्या व्यक्षरिकोच्यते न त्वार्येति // 125 // सज्झायमकूजोगा, धम्मकहा विगह पेसण गिहीणं / गिहिनिस्सिज्जं 'बाहिंति, संथवं तह करतीओ ||126|| स्वाध्यायमुक्तयोगाः धर्मकथाविकथाप्रेषणगृहिणाम् / गृहिनिषद्यां बाधन्ते संस्तवं कुर्वन्त्यः // 126 // व्याख्या - 'षट्कायमुक्तयोगाः' को भावः ? - षट्कायेषु पृथिव्यादिषु मुक्तो= दूरीकृतो योगोयत्नालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगाः संयत्यो धर्मकथामधर्मकथां वा * कथयन्ति गृहस्थानाम्, तथा विकथां परस्परं विधवादिसार्द्ध वा स्त्र्यादिकथां कुर्वन्ति, तथा गृहस्थानां कार्यादौ प्रेषणं कुर्वन्ति 'गृहिनिषद्यां वाहयन्ति' गृहस्थानामासनादिकमुपवेशनार्थं मुञ्चन्तीत्यर्थः, यदि वा गृहिणां निषद्या= चक्कलकगैदिकादिरूपा तां 'वाहिती'ति व्यापारयन्तीत्यर्थः, संस्तवो द्विधा गुण- - - - - - - - - - - - - - - - - - -- - - - - - - - - 1. 'छक्कायमुक्क०' E-H-प्रते / 2. 'निस्सेज्जं' H-प्रते / 3. 'वाहिति' D-E-F-G-H-प्रते / 4. ' ..........' एतच्चिन्हान्तर्गतपाठस्तु पूर्वमुद्रिते नोपलभ्यते, अत्र A-आदिप्रतपाठः / 5. "गब्दिका०" इति A-प्रते /