________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् .. जत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुयइ / गोअम ! तं गच्छवरं, वरनाण-चरित्तआहारं ||123|| यत्र च स्थविरा तरुणी, स्थविरा तरुणी च अन्तरिताः / स्वपन्ति गौतम ! तं गच्छवरं वरज्ञानचारित्राधारम् // 123 / / व्याख्या - यत्र च गणे 'स्थविरा' वृद्धा तरुणी च=युवती साध्वी, स्थविरा च तरुणी, चकारान्मध्यमा तरुणी तरुणीमध्यमा च 'अन्तरे' अन्तराले स्वपिति, अन्यथा तरुणीनां निरन्तरशयने परस्परं जाकरस्तनपादादिस्पर्शने सति मन्मथचिन्ता पूर्वस्मरणादिकं भवति, अतः स्थविरान्तरिताः स्वपन्ति, हे गौतम ! तं गच्छवरं जानीहि, किंभूतं ?-वरज्ञानचारित्राधारमिति // 123 // धोयंति कंठिआओ पोयंति तह य दिति पोत्ताणि | गिहिकज्जचिंतगीओ, न हु अज्जा गोअमा ! ताओ ||124|| धावन्ति कण्ठिकाः प्रोतयन्ति तथा च ददति वस्त्राणि / गृहिकार्यचिन्तिकाः न हु आर्या गौतम ! ताः // 124 / / व्याख्या - 'धावन्ति' कारणं विना नीरेण क्षालयन्तीत्यर्थः 'कण्ठिकाः' गलप्रदेशान् तथा 'पोयंती'ति आभरणमुक्ताफलचीडकादीनि 'प्रोतयन्ति' रन्ध्रे सूत्रादिकं सञ्चारयन्तीत्यर्थः, गृहस्थानामिति गम्यते, तथा 'ददति' अर्पयन्ति, 'पोत्ताणि' बालका) वस्त्रखण्डानि, चकाराद् दुग्धौषधजटिकादिकमपि ददति, यद्वा शरीरे ‘पोतानि' मलस्वेदादिस्फेटनाय जलार्दीकृतवस्त्राणि 'ददति' घर्षयन्तीत्यर्थः, 'गृहिकार्यचिन्तिकाः' अगारिगृहव्यापारकरणतत्पराः, नैव ता आर्याः हे गौतम !, किन्तु कर्मकर्य इत्यर्थः // 124 // खरघोडाइट्ठाणे, वयंति ते वा वि तत्थ वच्चंति | वेसत्थीसंसग्गी, उवस्सयाओ समीवंमि ||125 / / खरघोटकादिस्थाने व्रजन्ति ते वापि तत्र व्रजन्ति / वेश्यास्त्रीसंसर्गिः उपाश्रयः समीपे // 125 // 1. 'धोइंति' A-D-F-G-H-प्रते / 2. 'आउ' D-आदिप्रते / 3. 'पोइंति' A-आदिप्रते / 4. 'थलघो०' E F-G-प्रते /