________________ 78 for श्रीगच्छाचारप्रकीर्णकम् // गुल्यादिक्षेपणं आकारविकारं तं 'तथा प्रकाशयन्ति' तथा प्रकटीकुर्वन्ति यथा 'वृद्धानामपि' स्थविराणामपि 'मोहः' वेदोदयः कामानुराग इत्यर्थः 'समुदीरइ'त्ति तत्क्षण एवोत्पद्यते, 'तुः' पुनरर्थे, किं पुनस्तरुणानां साधूनाम् ? इति, हे सौम्य ! ताः साध्व्यो न, किन्तु नट्य इति // 121 // बहुसो उच्छोलिंती, मुह-नयणे हत्थ-पाय-कक्खाओ | गिण्हेइ रागमंडल, सोइंदिअ तह य कब्बट्टे ||122|| बहुशो उच्छोलयन्ति मुखनयनानि हस्तपादकक्षाः / गृह्णन्ति रागमंडलं श्रवणेन्द्रियं तथैव कल्पस्थाः // 122 // व्याख्या - 'बहुशः' कारणं विना वारंवारं 'उच्छोलिती'ति क्षालयन्तीत्यर्थः 'मुखनयने' वक्त्राक्षिणी हस्तपादकक्षाश्च / तथा च याऽऽर्या 'गिण्हेइ'त्ति परेभ्यो रागज्ञेभ्यो 'गृह्णन्ति' शिक्षन्ते 'रागमण्डलं' श्रीराग 1 गऊडी 2 मल्हार 3 केदारउ 4 मालवीगुडउ 5 सिन्धुउ 6 देशाख 7 आसाउरी 8 अधरस 7 काल्हेरउ 8 भूपाल 9 सामेरी 10 मारऊणी 11 मेवाडउ 12 रामगिरी 13 केदारगउडी 14 मधुराग 15 प्रभाती 16 सबाब 17 वेलाउली 18 वसंत 19 नाट 20 धन्यासी 21 इत्यादिकं रागसमूहं 'तहय'त्ति च पुनस्तद्रागमण्डलं गृहीत्वा 'तथा' तेन प्रकारेण करोति यथा 'कब्बडे'त्ति प्राकृतत्वाद्विभक्तिपरिणामः, तरुणपुरुषाणां, यद्वा 'कब्बट्टे'त्ति समयभाषया बालकास्तेषामपि 'सोइंदिय'त्ति श्रोत्रेन्द्रियं श्रवणेन्द्रियं परमसन्तोषं प्राप्नोति / यद्वा 'गिण्हइ'त्ति गृह्णन्ति करचालनेन तथा वादयन्ति रागमण्डलं चाङ्गप्रमुखं यथा बालतरुणादीनां श्रवणेन्द्रियं तोषं यातीति, यद्वा रागमण्डलं श्रोत्रेन्द्रियेण गृह्णन्ति, तथा च गृहस्थबालकान् क्रीडार्थं गृह्णन्तीति / यत्रोत्तरार्द्ध पाठान्तरं यथा-"गिण्हइ रामणमंडणं भोयंति य तह य कब्बढे"त्ति, अस्यार्थ:-'कब्बडेत्ति गृहस्थबालकान् स्नेहाद् गृह्णन्ति तेषां 'रामणे'ति क्रीडां कारयन्ति 'मण्डनं' शरीरभूषणां कुर्वन्ति, तथा तान् भोजयन्तीति ता आर्याः केन कथ्यन्ते ?, न केनापीति // 122 // - - - - - - - - - - - - - - - - - - - - - 1. 'गिन्हइ रामण मंडण भोइंति य तह' F-प्रते / 2. 'कप्पट्टे' G-प्रते, 'कब्बट्रे H-आदिष, 'कप्पस्स' F प्रते /