________________ ofen श्रीवानर्षिगणिविहितवृत्तियुतम् ng तथा - अजयणाए पकुव्वंति, पाहुणगाण अवच्छला / चित्तलयाणि अ सेवंते, चित्ता रयहरणे तहा ||120|| अयतनया प्रकुर्वन्ति प्राघूर्णिकानामवत्सला। चित्तलानि च सेवन्ते, चित्राणि रजोहरणानि तथा // 120 / / व्याख्या - 'अयतनया' जीवयतनां विनेत्यर्थः ‘पकुव्वंति'त्ति प्रकर्षेण= मनोवाक्कायेन भिक्षाटनभोजनमण्डल्युद्धरणस्थण्डिलगमनग्रामानुग्रामपरिभ्रणवसतिप्रमार्जनप्रतिलेखनाऽऽवश्यकादिकं कुर्वन्ति, यद्वा न विद्यते यतना=आचरणेनाथ षट्कायपरिपालना यत्र सा अयतना केवलद्रव्यलिङ्गधारणा तया प्रकुर्वन्ति जठरपूरणार्थं रामाद्यावर्जनादिकमिति, तथा 'प्राघूर्णकानां' ग्रामान्तरागतानां मार्गश्रमसंयुक्तानां क्षुत्पिपासापीडितानां साध्वीनां 'अवच्छल'त्ति निर्दोषभव्यान्नपानादिना बहुमानपूर्वकं भक्तिं न कुर्वन्तीत्यर्थः, तथा 'चित्तलिआणि'त्ति चित्रितानि= नानाचित्रसंयुक्तानि वस्त्रकम्बलीपात्रदण्डादीनि, यद्वा 'चीतलिकानि' चउकचीतलिकापाचीका-सारपासकादीनि 'सेवन्ते' स्वयं प्रवर्तयन्तीत्यर्थः, चशब्दाद्धस्ते मिन्थ्यिका, चरणेऽलक्तकुङ्कमादि, कण्ठे हारकादि इत्यादि कामाङ्गानि सेवन्ति, तथा रजोहरणे 'चित्ता' इति चित्राणि बाह्याभ्यन्तरपञ्चवर्णगुल्लादिकर्षणानि कुर्वन्तीति, हे गौतम ! ता अनार्या उच्यन्त इति // 120 // गइ-विब्भमाइएहिं, आगारविगार तह पगासंति | जह 'वुड्डण मोहो, समुईरइ किं तु तरुणाणं ? ||121 / / गतिविभ्रमादिभिः आकारविकार तथा प्रकाशयन्ति / यथा वृद्धानां मोहः समुदीर्यते किं तु तरुणानाम् ? // 121 / / व्याख्या - या आर्या 'गतिविभ्रमादिकैः' गमनविलासादिकैः आकारश्च= स्थूलधीगम्यदिगवलोकनमुखनयनादिचेष्टा विकारश्च स्तनकक्षादिप्रदेशे हस्ता१. 'पगासिंति' A-D-E-F-G-H-प्रते / 2. 'जह कमढगाण मोहो' F-प्रते, 'जह कब्ब(प्प)ढगाण मोज्ञे' E G-प्रते / 3. 'वडाणवि मोहो' D-H-प्रते / - - - - - - - -