________________ 76 - श्रीगच्छाचारप्रकीर्णकम् // "मामा आई बाप भाई बाई बेटी" इत्यादिका नोच्यन्ते स गच्छो गच्छवर इति // 117 // जो जत्तो वा जाओ, नालोयइ दिवसपक्खियं वावि | सच्छंदा समणीओ, मयहरियाए न ठायंति ||118|| यो यावान् वा जातः नालोचयन्ति दैवसिकं पाक्षिकं वापि / स्वच्छन्दाः श्रमण्यः महत्तरिकाया न तिष्ठन्ति // 118 // / व्याख्या - यो यावानिति 'जातः' उत्पन्नस्तं तथा 'नालोचयति' न गुरोः कथयति, तथा दैवसिकं पाक्षिकं वा, अपिशब्दाच्चातुर्मासिकं सांवत्सरिकं चातीचारं नालोचयति, तथा 'स्वच्छन्दाः' स्वेच्छाचारिण्यः श्रमण्यो ‘महत्तरिकायाः' मुख्यसाध्व्याः आज्ञायां न तिष्ठन्ति स गच्छो मोक्षपदसाधको न, किन्तूदरपूरक एवेति // 118 // विंटलिआणि पउंजंति, गिलाण-सेहीण नेव तप्पंति / अणगाढे आगाढं, करंति आगाढि अणगाढं ||119|| विटलिकानि प्रयुञ्जन्ते, ग्लानशैक्ष्यान् नैव तर्पयन्ति / अनागाढे आगाढं कुर्वन्ति आगाढे अनागाढम् // 119 / / व्याख्या - “विण्टलिकानि' निमित्तादीनि, यद्वा 'वेण्टलिकानि' यन्त्रमन्त्रादीनि 'प्रयुञ्जन्ति' प्ररूपयन्तीत्यर्थः 'ग्लानिकानां' रोगिणीनां 'सेहीण'त्ति नवदीक्षितसाध्वीनां 'नेय तप्पंति'त्ति औषधभेषजवस्त्रपात्रज्ञानाभ्यासादिना चिन्तां न कुर्वन्तीत्यर्थः / तथा आगाढम् अवश्यकर्त्तव्यं सर्पभक्षितविषमूर्छितमरणान्तशूलादिपीडितप्रतिजागरणादिकम्, न आगाढमनागाढम् तस्मिन् अनागाढे कार्ये 'आगाढं' अवश्यकर्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः, तथा 'आगाढे' पूर्ववर्णितस्वरूपे कार्ये अनागाढं कार्यं कुर्वन्ति, *तदनुचितं प्रतिजागरणं कुर्वन्तीत्यर्थः*, यद्वा 'अणगाढे'त्ति आचाराङ्गादिअनागाढयोगानुष्ठाने 'आगाढं 'ति भगवतीप्रमुखमागाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति च // 119 // 1. 'दाउ व सवणे मय०' F-प्रते / 2. 'नेय' E-F-G-H-प्रते, 'नेव तिप्पंति' D-प्रते / 3. ' .......' एतच्चिन्हान्तर्गतः पाठः पूर्वमुद्रिते नोपलभ्यते, अत्र A-आदिप्रतानुसारेण विन्यस्तः / - -