________________ उपोद्घातः यत्तु श्रीमहाविष्ण्वधिष्ठितवैकुण्ठाख्य ब्रह्मलोकप्राप्तिरेव मोक्ष इति) वैष्णवोक्तं तदेतेन निरस्तम्। यतो न वयं वैकुण्ठप्राप्ति तस्य साधनभूतां ब्रह्मोपासनां च निराकूर्मः अपि तु वैकुण्ठप्राप्तिनं मोक्षः आत्यन्तिकः / अपि तु सशरीरत्वात् शरीरवतश्च "नवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" इति श्रुत्या वैकुण्ठवासिनामपि शरीराभिमानवत्त्वात् दुःखसंभवात् जयविजयादिवत् तेषामपि पुनरावृत्तिसंभवात् न मुख्यो मोक्षः, अनावृत्तिवचनमस्मिन् कल्पेऽनावृत्तिविषयमिति ब्रूमः / ___ यत्तु स एनान् ब्रह्म गमति इति श्रुतौ ब्रह्मलोकात् विद्युल्लोकमागतेनामानवपुरुषेण नीयमानपुरुषः प्राप्यं ब्रह्म ब्रह्मलोकस्थं परब्रह्मव न तु कार्य ब्रह्म इति त्रिदण्डिनः आहुः। तत्रेदं विचारणीयम् कार्य बादरिरस्य गत्युपपत्तेः इति सूत्रं पूर्वपक्षसत्रं परं जैमिनिमुख्यत्वादिति सिद्धान्तसत्रमिति च शैवत्रिदण्डिभास्करमतानुसारिणां वैष्णवत्रिदण्डिनां च मतम् / भगवत्पादैस्तु 'कार्य बादरिः इत्यादिसूत्र सिद्धान्तः। परं जैमिनिमुख्यत्वादिति पूर्वपक्ष इत्यभिधीयते / भगवत्पादैः कार्यब्रह्मणः सत्यलोकस्थस्य गन्तव्यत्वोपपत्त्या कार्यब्रह्मविष या गतिश्रुतिः। तेन च परब्रह्मणा गन्तव्यत्वानुपपत्तिः सच्यते / तच्च “अत्र ब्रह्म समश्नुते" ब्रह्मविद्बह्येव भवति' इत्यादिश्रुत्यनुगुणं भवति / परं ब्रह्म तु सर्वगतत्वात् न गमनप्राप्यम् / अतः तत्र गमयतिशब्दोऽनुपपन्नः / यद्यपि ब्रह्मशब्दः मुख्यवृत्त्या परं ब्रह्मवाचष्टे तथापि अनन्यथासिद्धलिङ्गापेक्षया श्रुतेः दुर्बलत्वादत्र गतिप्राप्यत्वलिङ्गस्यानन्यथासिद्धत्वात् लिङ्गमेव प्रबलम् / यथा आकाशस्तल्लिङ्गात् इत्यत्र लिङ्गस्य सर्वभूतोत्पत्तिस्थितिलयाधिष्ठानत्वरूपस्यानन्यभासिद्धस्य प्रबलत्वादेव आकाशपदप्रतिपाद्यं ब्रह्म न भूताकाश इति निर्णीतं आकाशस्तल्लिङ्गादित्यधिकरणे। मीमांसकाश्च 'हस्तेनावद्यति स्रवणावति स्वधितिनाऽवद्यति इति विधिभि: अवदानशब्दश्रुत्या सर्वेष्ववदानेषु त्रयाणां साधनत्वबोधनेऽपि हस्तादिगतानन्यथासिद्धसामर्थ्यानुसारेणैव तत्तच्छ तिगतानां अवदानपदानां संहतावदान-आज्यावदान-मां सावदानपरत्वं व्यवस्थापितं सामर्थ्याधिकरणे (पः मीमांसायां प्रथमाध्यायान्त्याधिकरणे ) यत्त कार्यब्रह्मणोऽपि सर्वगतत्वेन तस्थापि गन्तव्यत्वमनुपपन्नमिति भास्करण प्रलपितं तन्न कार्यपदेन ब्रह्मलोकगतसशरीरचतुर्मुखाभिधानात् तस्य चअसवंगतत्वात् गन्तव्यत्वोपपत्तिरेव / तस्मात् मोक्षः स्वस्वरूपाविर्भाव एव सूत्रकारसंमतः ब्रह्मलोकप्राप्तिः वैकुण्ठप्राप्तिरपि न मोक्षा तत्प्राप्तानां मोक्षानभिधानात् अनावृत्तिःशब्दात् इत्यनेनापुनराबृत्तेरेवाभिधानात् / ____ अनाबृत्तिश्च ब्रह्मलोकं प्राप्तानां ब्रह्मलोक एव ब्रह्मणा सह ब्रह्मविचारं कृत्वा ब्रह्मसाक्षात्कारप्राप्तिसंभचात् तत्रैव मोक्षप्राप्त्या संगच्छत एव / अत एव प्रश्नोपनिषदि