________________ सटीकाद्वैतदीपिकायाम् वा भेदो वा ? इति / तत्र कि समाधानं भेद इत्युक्तौ तस्यापि घटाभेदान्तरं भेदभेदस्याप्येवमित्यनवस्था। यद्यभेदः तर्हि घटपटथोरप्यभेदः प्राप्तः। अतः भेदस्य दुनिरूपत्वात् केवल व्यवहारमात्रं विषयरहितं वाच्यम् / एवं स्नानादिना मलमूत्रादिपूर्णस्य देहस्य का शुद्धिः सुरापर्णघटवदशुद्धस्य ? व्यवहरमात्रमित्येव युक्तं, मृद्धटयोः भेदे तोलने द्विगुणं गुरुत्वं स्यात् मृद्धट इति प्रत्यथो न स्यात् अभेद एव तु वास्तविकः भेदस्तु व्यवहारमात्रमित्यभ्युपेयम् / आधुनिकव्यवहारे पत्रे कस्मिश्चित् एकरूप्यकं इति सर्वकारीयाः मुद्रापयित्वा प्रयच्छी त / रूप्यमिति पत्रमेव व्यवहरामः / तादृशपत्रशतं शतरूप्यकं इति व्यवह्रियते न चैतद्रूप्यं, सादृश्यस्याप्यभावात् / अतः रूप्यव्यवहारमात्रमिदमिति स्पष्टम् / न चात्र धारकस्य रूप्यं दीयेत-अनुक्तेः।। ___ एवमेव सर्वस्य लोकव्यवहारस्य कर्मकाण्डस्य स्वर्गादेः सत्यलोकान्तस्य व्यावहारिकसत्यत्वमेव।प्रारमार्थिकंतु ब्रह्मैव श्रुतौ नेह नानास्ति किञ्चन, यत्र “हि द्वैतमिव भवति तदितर इतरं पश्यति" विद्वान् नामरूपा द्विपुक्तः सत्यं चानृतं च सत्यमभवत् इत्यादिवाक्येभ्य प्रपञ्चस्य मिथ्यात्वावगमात् / अमेवं श्रीनृसिंहाश्रम सुनिभिः अद्वैतकण्टकानामुद्धारे कृतेऽपि केचन त्रिदण्डमतमाश्रिताः ब्रह्मसूत्राणामद्वैतपरप्वं स्पष्टं प्रतीयमानमपि भाष्यकारादिभिः सुप्ठूपपादितमपि खण्डयितुं प्रयतन्ते / तच्चात्र विमृश्यते / अद्वैतदीपिकायाः उपोद्वलनाय / तथाहि---अथातो ब्रह्मजिज्ञासा इति प्राथमिक सूत्रम् / इदं च विषयप्रयोजनसंवन्धाधिकारिणां सूचकमिति सर्वेषामभ्युपगमः। अत्र च सूत्रादेव ब्रह्म विषय' इति ज्ञायते / तस्य ज्ञानाय विचारः क्रियते / ब्रह्मज्ञानमेव न फलं सुखदुःखनिवृत्त्यन्यतरत्वाभावात्-अपि तु मोक्षः फलं तत्साधनत्वाच्च ब्रह्मज्ञानं फलमिति / फलाध्याये तथैवचारंभ एव स्पष्टमुच्यते सूत्रकृता- तथाहि-सम्पद्याविर्भावः स्वेन शब्दात् इति तत्र प्रथमं सूत्रं तदर्थश्च एवमेवैष सम्प्रसादोऽस्माच्छ रात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति छान्दोग्यश्रुतौ स्वेन रूपेणाभिनिष्यद्यते-स्वस्वरूपं परं ज्योति; ब्रह्म साक्षात्कृत्य इति / तथा च स्वस्वरूपाविर्भावो मोक्ष इति फलितम् / तस्य मोक्षत्वं तु मुक्तः प्रतिज्ञानात्' इति द्वितीयसूत्रेणावगम्यते / यदि आविर्भावो मोक्षः स्यात् तदा अनाविर्भावो बन्ध इत्यर्थात् सिद्धम् / अनाविर्भावश्च जीवस्य ब्रह्मरूपाच्छादकेनाज्ञानेनेति वक्तव्यं अत एव अविद्यावरणमेव वन्धःतन्निवृत्तिश्च मोक्ष इति सिद्धम् / तत्रिवृत्तिश्च ब्रह्मज्ञानादेवेति स्पष्टम् यतः शास्त्रं ब्रह्मज्ञानायारब्धं तेन च निवत्यं अज्ञानं, समानविषयकयोरेव च ज्ञानाज्ञानयोः निवत्यनिवर्तकभाव नियमात्; ब्रह्मज्ञानस्य जीवस्वरूपाच्छादकाज्ञानस्य चैकविषयकत्वं विना तदनुपपनेः जीवब्रह्मणोरक्यं तस्यैवास्मिन् शास्त्र विषयत्वं च सूचयति / अतः प्रथमसत्रादेव जीवब्रह्मक्यरूपविषयः सिद्धयति / प्रयोजनं च अज्ञानरूपबन्धनिवृत्तिरिति सिद्धं भवति / 1. अज्ञानेनाघृतं ज्ञान (गीता)।