________________ सटकातदपिकायाम् स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षतेइत्यत्र ब्रह्मलोकप्राप्त्यनन्तरं प्रयत्नान्तरेण ब्रह्मसाक्षात्करणमुक्तम् / यदि च परपुरुषोपासकस्य ब्रह्मलोकप्राप्तिरिष्टा सेव मुक्तिरिति च मतं तदा ब्रह्मलोकंप्राप्तस्य तत्रत्यचतुर्मुखब्रह्मणः 'दर्शनमयत्नसिद्धमिति प्रयत्नान्तरकरणेन पुरुषमीक्षते इति वचनमनर्थकमापद्येत / तस्मात् कार्यब्रह्मप्राप्तिरेव सिद्धान्तपक्षः मुख्यब्रह्मणस्तु अत्रैव साक्षात्कारात् अत्रैव ब्रह्मप्राप्तिः सा च संपद्याविभवः स्वेन शब्दादिति चतुर्था. ध्याय चतुर्थपादे आदावुच्यते। जन्माधस्य यतः इदमपि सत्रमद्वैतं ब्रह्म गमयति / यतः जगज्जन्मादिहेतुत्व मुक्त्वा तच्च हेतुत्वं प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तेः उपादानत्वं निमित्तत्वं च / उपादानत्व चन परिणामित्वं तस्य कृत्स्नप्रसक्तिनिरवयवत्त्वशब्दकोपो वा इत्युक्तः, अस्यार्थःयदि कृत्स्नं ब्रह्म जगदाकारेण परिणमते तदा अयत्नदृष्टत्वात्प्रपञ्चरूपब्रह्मणः ब्रह्मजिज्ञासा व्यर्था स्यात् यद्येकदेशेन परिणमते ब्रह्म तदा ब्रह्मणा सावयवत्वं निष्कलं' ब्रह्मेति श्रुतिविरोधश्च इत्युक्त्वा श्र तेस्तु शब्दमूलत्वात् आत्मनि चैवं विचित्राश्च हि इति सूत्राभ्यां स्वप्ने आत्मनि स्वरूपानुपमर्दनेन स्वाप्नप्रपञ्चसृष्टिदर्शनांत् तद्वदेव प्रपञ्चसृष्टिः ब्रह्मणो मायामयी अतथ्यरूपेति विवर्तवाद उक्तः / अतः विवौंपादानभूतं ब्रह्म अद्वितीयमिति प्रपञ्चाभावोपलक्षितब्रह्मवादः द्वितीय सूत्रार्थी इत्यागतम् / विवर्तोपादानत्वं च स्वासमसत्ताककार्यजनकत्वं यया शुक्तेः रजतं प्रति / तथा च प्रपञ्चस्य ब्रह्मभिन्नसत्ताकत्वेन मिथ्यात्वात् उपादानं शुद्धमद्वितीयं ब्रह्मेति सिद्धम् / प्रपञ्चस्थ मिथ्यात्वं चात एव सिद्धमित्यद्वैतम् / शात्रस्योनित्वात् ___ इदमपि सूचयत्येवाद्वैतम् / योनिशब्दः योनिश्च हि गीयते इत्युत्तरत्र प्रथमाध्यायोपान्त्यसूत्रेणोपादानपरः प्रयुक्तः / अतोऽत्राप्युपादानत्वपरत्वे कृत्स्नप्रसक्त्यधिकरणन्यायेन विवर्तोपादानत्वमेव वक्तव्यं तेन ब्रह्मणः अद्वितीयत्वं प्रपञ्चस्य विवर्तत्वेन मिथ्यात्वं च सिद्धम् / यदि तु योनिः प्रमाणं इत्यर्थे शास्त्रप्रमाणकं ब्रह्मेत्यर्थः आश्रीयते तदा शास्त्रस्य एकमेवाद्वितीयं नेह नानास्ति किञ्चन इत्यादिना अद्वैतपरता सुस्थिता / शास्त्रदृष्ट्येति सूत्रेण अहं ब्रह्मास्मि इति ज्ञानस्योक्तत्वाच्च / तत्तु समन्वयात् सम्यगन्वयः समन्वयः सम्यक्त्वं च तात्पर्यविषयत्वद्योतकम् / तथा चोपक्रमादिषड्विधतात्पर्यलिगः अद्वैतबोधनात् अद्वैततात्पर्यकमित्यर्थः /