________________ द्वितीयः परिच्छेदः गुरौ परोक्षज्ञाननिश्चयवांस्त्वविद्यानिवृत्तेर्यत्नान्तरसाध्यत्वनिश्चयेन स्वयमपि प्रवर्तते। अन्यत्र विघ्नशङ्कयापि स्वयं प्रवर्तते। स्वर्गनरकादिव्यवस्था च जीवस्यैकस्यैवाविद्याप्रतिबिम्बस्यानेकान्तःकरणावच्छेदभेदेन संगच्छते। नानाजीववादे च यस्य ब्रह्मसाक्षात्कारः तस्योपाधिनिवृत्तिनेतरस्य उपाधिश्चानादिजीवनिष्ठो ब्रह्मनिष्ठो वा / यो यस्य ब्रह्मभावप्रतिबन्धकः स तस्य ब्रह्मसाक्षात्कारेण निवर्तते, अतो नातिप्रसङ्गः / पाण्डित्यादेस्तु प्रमातुरन्तःकरणावच्छिन्नस्यैव धर्मत्वात्तद्भदादेव व्यवस्था। न च गुरुशिष्यभावव्यवस्थाऽसम्भवो जीवद्वयाभावादिति वाच्यम् / परोक्षज्ञानिन एवोपदेशकर्तृत्वमितिमतेऽन्तःकरणभेदेन तदुपपत्तेः / ब्रह्मनिष्ठत्वं च ननु गुरुप्रवृत्त्यैवापरोक्षज्ञानसंभवात्स्वेन किमर्थं प्रवर्तितव्यमित्यत आह-अन्यत्रेति / नन्वेकजीववादे कथं स्वर्गनरकयोस्तद्धेतुधर्माधर्मयोश्च व्यवस्थेत्याशङक्य कर्तृत्वोपारन्तःकरणस्थानेकत्वाद्यदन्तःकरणोपहितेन यत्कर्म कृतं तदुपहितेनैव तत्फलं भोक्तव्यमिति व्यवस्थोपपत्तिरित्याह--स्वर्गेति / इदानीमनेकजीववादे बन्धमोक्षव्यवस्थामभ्युपेत्य तदुपपत्तिमाह-नानेति / तस्योपाधिनिवृत्तिरिति / तस्य ब्रह्मणः सकाशाद्भेदप्रयोजकाज्ञानरूपोपाधितद्धर्मादेनिबृत्तिरित्यर्थः। ननु च उपाधिः किं जीवनिष्ठो ब्रह्मनिष्ठो वा ? / नाद्यः। जीवेश्वरविभागस्याज्ञानप्रयुक्तत्वेन परस्पराश्रयात् / न द्वितीयः / ब्रह्मणोऽज्ञत्वभ्रान्तत्वादिप्रसङ्गादित्याशङ्क्योभयथाऽपि न दोष इत्याह--उपाधिश्चेति / अज्ञानजीवत्वयोरनादित्वात् साक्षिमात्रभास्यत्वाच्चोत्पत्तौ ज्ञप्तौ वा न परस्पराश्रयः, स्थितौ च परस्पराश्रयप्रयोजकत्वं, द्रव्यत्वगुणवत्त्वयोरिवाविरुद्धम् / अज्ञानरूपोपाधेश्चिन्मात्रब्रह्मनिष्ठत्वेऽपि स यं प्रति ब्रह्मरूपमावृणोति तस्यैवाशत्वादिप्रयोजक इति न ब्रह्मणोऽज्ञत्वादिदोषप्रसङ्ग इति भावः / एकजीवमते पाण्डित्यमौर्त्यव्यवस्थाऽपि स्वर्गनरकादिव्यवस्थावदेवेत्याह-पाण्डित्यादेस्त्विति / नन्वेकजीवमते गुरुशिष्यभावो न सम्भवति गुरोर्जानित्वात् शिष्यस्य चाज्ञानि- , त्वात् ज्ञानाज्ञानयोरेकदैकत्र विरोधादिति चेत् परोक्षज्ञानस्याज्ञानाविरोधित्वात् प्रमातृभेदेन गुरुशिष्यभावोपपत्तेरित्याह--न चेत्यादिना / "ननु समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्" इति श्रुतेर्ब्रह्मनिष्ठस्यैवोपदेष्टुत्वात् कथं परोक्षज्ञानिनो गुरुत्वमित्यत आह--ब्रह्मनिष्ठत्वं चेति / अपरोक्षज्ञानिन एवोपदेष्टुत्वेऽपि गुरुशिष्यभावोपपत्तिरित्यभिप्रेत्य मतान्तरमाह-केचित्त्विति / भगवानेव गुरुदेहं गतो ब्रह्मोपदिशतीति प्रथमं संबन्धः / ननु भगवतस्तत्त्वज्ञानित्वेन जीवे स्वातिरिक्तत्वभ्रमाभावात् कथं तदुपदेशार्थं प्रवृत्तिरित्याशक्य जीवकल्पितव्याव