SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 74 सटीकाद्वैतदीपिकायाम् तस्यापि भवति / अनन्यव्यापारतालक्षणब्रह्मनिष्ठतायास्तस्याविरोधात् / केचित्तु भगवानेवान्तर्यामी शिष्यस्य स्वमतिकल्पितत्वशङ्काव्युदासाय गुरुशुश्रूषादिशास्त्रार्थवत्त्वाय च परोक्षनिश्चयवद् गुरुदेहं गतस्तदभेदज्ञानात्तदाराधनयाऽपि संतुष्टो ब्रह्मोपदिशति स्त्र्यादिशरीरे गन्धर्वोपदेशदर्शनात् / ___ "यो वै वेदांश्च प्रहिणोति तस्मै" तेने ब्रह्म "हृदाय आदिकवये" इत्यादिप्रमाणादन्तर्यामिण उपदेष्टुत्वाद् / जीवस्य चोपदेशानुकूलव्यापारवत्स्वशरीराभेदाभिमानात्स्वस्योपदेष्टत्वाभिमानः। अत एव "मन्मुक्त्यवासि मुक्तस्त्वम्" इत्युपदेशापादनमपि निरवकाशमिति। हारिकभेदेन तन्नियन्तृत्ववत् तदुपदेष्ट्रत्वमप्यस्तीत्याह-अन्तर्यामीति / नन्वीश्वरोऽधिकारिहृदयस्थ एव तस्य बोधयतु ब्रह्म, किं तस्य गुरूपदेशेनेत्याशक्य तथात्वे शिष्यस्य स्वबुद्धिमोहादित्यंस्फुरतीति शङ्कया निविचिकित्सबोधायोग इत्याहशिष्यस्येति / एवमप्यन्तहित एवेश्वरः श्रुतिवाक्योपन्यासपूर्वकं ब्रह्मोपदिशत्वित्याशशङ्क्याह-गुरुशुश्रूषेति / मूर्खशरीरं प्रति शिष्यस्य ज्ञानायोपसर्पणाभावात्तत्रोपदेशासम्भव इत्यभिप्रेत्य परोक्षनिश्चयवदित्युक्तम् / ननु गुरोरेवोपदेशाथे प्रार्थितत्वादप्राथितस्येश्वरस्य कथ पुपदेष्ट्रत्वमित्याशयोपदेष्ट्रत्वबुद्धया गुरोरार धितत्वात्तावता संतुष्टो भगवानुपदिशतीत्याह- तदभेदेति / नन्वन्यशरीरेऽन्यस्योपदेष्टुत्वं कुत्रापि न दृष्टमित्यत आह-स्त्यादीति / दर्शनादित्युपलक्षणं पतञ्जलस्य काप्यस्य भार्यायां प्रविष्टस्य गन्धर्वस्य याज्ञिकादीन् प्रत्युपदेष्टुत्वश्रवणाच्चेत्यर्थः / ईश्वरस्योपदेष्टुत्वे मानाभावशङ्कायामाह-यो वा इति / आदिपदेन "ददामि बुद्धियोगं तं येन मामुपयान्ति ते" / योऽन्तर्बहिस्तनुभृतामशुभं विधुन्व नाचार्यचैत्यवपुषा स्वगतिं व्यनक्ति / इत्यादि गृह्यते। नन्वेवं सत्यहमस्य गुरुर्ममायं शिष्य इति कथमाचार्यो वक्तोत्यत आह-जीवस्येति / एकजीवमते जीवद्वयाभावादुपदेश एव न सम्भवति / तत्सम्भवेऽपि मन्मुक्त्यैवासि मुक्तस्त्वं मा यत्नं कुरु मुक्तये / / ___ इत्येवोपदेशः स्यादिति चोद्यं परोक्षज्ञानिन ईश्वरस्य वोपदेष्तृत्वाङ्गीकारादेव निरस्तमित्याह-अत एवेति / न जीवस्येश्वरस्य वोपदेष्टुत्वं किं तु मायाविजृम्भित
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy