SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 75 सटीकाद्वैतदीपिकायाम् जीववादे व्यवस्थाया एवाभावात् / केषांचिन्मुक्त्यादिश्रवणस्य श्रवणादिशेषार्थवादत्वात् / न चैवमनादौ संसारे कस्यापि मुक्त्यभावे स्वस्य मुक्तावनाश्वासः। वेदप्रामाण्यादेतावत्कालममुक्तस्य स्वस्य भविष्यन्मुक्तावाश्वासवदेकजीववादेऽप्युपपत्तेः / न च ज्ञानार्थमेकस्मिन् प्रवृत्तेऽपरस्याप्रवृत्तिप्रसङ्ग इति वाच्यम् / एकस्येवापरस्याप्यज्ञत्वाद् रागप्राप्तप्रवृतेर्बाधकामावाद भेदभ्रमात्प्रवृत्त्युपपत्तेः। अभेदे तु निश्चिते न कश्चित्प्रवर्तते / न चाप्तवाक्याज्जीवकत्वनिश्चयानन्तरमनेकेषां प्रवृत्तिर्न स्यादिति वाच्यम् / गुरावविद्यानिवर्तकसाक्षात्कारं स्वस्मिश्चाविद्यां पश्यतो जीवकत्वनिश्चयासंभवात्। दिति / नन्वस्मदादेरिदानीमपि बद्धत्वाद्वामदेवादेश्च मुक्तत्वश्रवणात्कथं व्यवस्थाभाव इत्याशक्य श्रुतिन्यायाभ्यां जीवविभागप्रयोजकाज्ञानक्ये सिद्धे इदानीं संसारानुभवविरोधात्तेषां मुक्तिश्रुतिरर्थवाद इत्याह-केषांचिदिति / इतः पूर्वं कस्यापि मुक्तिफलक ज्ञानानुदये स्वस्यापि तदनुदयशङ्कया ज्ञानाभ्यासे कस्यापि निष्कम्पप्रवृत्तिर्न स्यादित्याशङ्क्याह-न चैवमिति / तत्र हेतुः वेदेति / यथा जीवनानात्वमते स्वस्यानादिसंसारे मुक्तिपर्यन्तज्ञानानुदयेऽपि "ब्रह्म वेद ब्रह्मैव भवति'' "तरति शोकमात्मवित्' इत्यादिवेदप्रामाण्यादेव भविष्यन्नुक्त्यपेक्षया प्रवृत्तिः, एवमेकजीवपक्षेऽपि वेदप्रामाण्यादेव निःशङ्कं मुक्त्यथिनस्तत्साधनज्ञानाभ्यासे प्रवृत्त्युपपत्तिरित्यर्थः / नन्वेकस्य मुक्त्यर्थे ज्ञानाभ्यासे प्रवृत्तेरेवान्येषामपि मुसुक्षणां तज्ज्ञानादेवापेक्षितसिद्धेस्तदर्थ प्रवृत्तिर्न स्यादिति चेत् न / एकस्य यथा स्वस्मिन्नज्ञानतत्कार्यरूपानर्थदर्शनात्तन्निवृत्तये प्रवृत्तिः, एवमन्येषामपि स्वस्वात्मन्यनुभूयमानाज्ञानाद्यनर्थनिबृत्तिकामित्वाद्यागे शूद्रवच्छास्त्रेणापर्युदस्तत्वाच्च तदर्थप्रवृत्तिरनिवार्येत्याह-न च ज्ञानार्थमिति / किमैकात्म्ये निश्चिते प्रवृत्तिर्न स्यादित्युच्यते अनिश्चिते वा ? नान्त्यः स्वस्याधिकार्यन्तराभेदानिश्चयदशायां स्वस्य ततो भेदभ्रमात् स्वप्रयोजनाय पृथक् प्रवृत्त्युपपत्तेरित्याह-भेदभ्रमादिति / आद्येऽपि तन्निश्चयः किमप्रतिबद्धसाक्षात्कारात्मकः परोक्षज्ञानात्मकोवा ?आये इष्टापत्तिः / ततः सर्वानर्थमूलाज्ञाननाशेन तदनन्तरं कस्यापि संसारिणोऽभावादित्यभिप्रेत्याह-अभेदे स्विति / द्वितीयमनूद्य दूषयति-न चेति / किं गुरावपरोक्षज्ञाननिश्चयवतस्तद्वाक्याज् जीवैक्यनिश्चयः परोक्षज्ञाननिश्चयवतो वा ? / नाद्यः / अपरोक्षज्ञानिनो गुरोरज्ञानिनश्च स्वस्य विरुद्धधर्मवत्त्वेनाभेदज्ञानासम्भवेन जीवैकत्वनिश्चयायोगादित्याह-गुराविति / / द्वितीये परोक्षज्ञाने सत्यप्यज्ञानस्यानुवर्तमानत्वादपरोक्षज्ञानेनैव तन्निवर्त्यमिति मत्वा तदर्थं स्वयमपि प्रवर्तत इत्याह-गुराविति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy