________________ 71 द्वितीयः परिच्छेदः शरीरभेदेऽप्यात्माभेदे पूर्वपक्षः नन्वात्माभेदे यज्ञदत्तस्य देवदत्तात्माभेदानुभव एव किन्न स्यादिति चेत् न। स्वस्य सर्वात्मतावारकाज्ञानादुपदेशादिसहकारिविरहाद्वा तद्विरहस्योक्तत्वात् अवच्छिन्नयोभिन्नत्वाच्च / यस्य देहान्तरीयात्माभेदो लिङ्गन श्रुत्या वा निश्चितस्तेन तत्सुखादिकमप्यनुमानेन स्वीयत्वेन प्रतिसंधीयत एव / एवं देवदत्तस्य 'नाहं यज्ञदत्त' इति भेदभ्रमोऽपि तस्य स्वकीयत्वेन यज्ञदत्तीयसुखाद्यननुसन्धानप्रतिबन्धकः / न चैवं सुषुप्त्यादावनुसन्धानप्रसङ्गः / तदानीमनुसंधातुरहङ्कारोपहितस्य साक्षिणोऽभावात् / तस्मादद्वैतवादे एकः अनेको वा जीवः उभयथाऽपि शरीरान्तरावच्छिन्नस्य न परशरीरावच्छिन्नात्मसुखाद्यनुसंधानमिति / एकजीववादे अनुपपत्तीनां परिहारः यदपि नवीनोक्तं बन्धमोक्षपण्डितमर्खव्यवस्था चैत्रप्रमया चैत्रभ्रमनिवृत्तिरित्यादिव्यवस्था च न स्यादिति / तत्र न तावत् बन्धमोक्षव्यवस्थानुपपत्तिः / एकस्तत्तच्छरीरावच्छिन्नात्माभेदस्यानावृतत्वातदनुभवः तस्यैव शरीरोपहितात्माभेदस्य मूलाज्ञानेनावृतत्वात्तद्बोधकोपदेशाभावाच्च तदननुभव इति योग्यानुपलब्धिनिराससमय एवोक्तामत्याह--न स्वस्येति / किं च सर्वशरीरेष्वात्मनोऽभेदे किं देवदत्तस्य यज्ञदत्तशरीरोपलक्षितात्माभेदानुभव आपाद्यते उत तद्विशिष्टात्माभेदानुभवः ? / आये इष्टापत्तिः / देवदत्तशरोरेऽनुभूयमानात्मनो यज्ञदत्तशरीरोपलक्षित्वात् / न द्वितीयः / विशिष्टात्माभेदाभावादेव तदननुभव इत्यभिप्रेत्याह-अवच्छिन्नयोरिति / ननु विप्रतिपन्नं शरीरमेकस्यैव भोगायतनं शरीरत्वाच्चैत्रशरीरवदित्यादिलिङ्गात् "एको देवः सर्वभूतेषु गूढ' इत्यादिश्रुतेर्वा सर्वशरीरेष्वात्मैक्यज्ञानानन्तरं स्वकीयत्वेन सर्वशरीरवर्तिदुःखानुसन्धानं स्यादित्याशङ्ख्यास्याभेदज्ञानस्य परोक्षत्वात् परोक्षतस्तदनुसंधानमिष्टमित्याह-यस्येति / एवमनुसन्धानप्रयोजकाभेदप्रतीत्यभावान्न देहान्तरीयसुखाद्यनुसंधानमित्युक्तम्, इदानीं भेदभ्रमेण प्रतिबद्धत्वादपि न तदनुसन्धानमित्याह-एवमिति / तहिं सुप्तीभेदभ्रमाभावेन प्रतिबन्धकाभावात्परकीयदुःखाद्यनुसंधानं स्यादित्याशक्य किमात्ममात्रस्य तदाऽनुसंधानमापाद्यते उताहंकारविशेषोपहितस्य ? / आद्य इष्टापत्तिः। द्वितीये उपाविभूताहंकारस्य तदा सूश्रमरूपेण स्थितत्वान्न तदुपहितस्य तदनुसंधानमित्यभिप्रेत्याह-न चैवमिति / मैत्रानुसंहितदुःखाननुसंधातृत्वादित्यस्यान्यथोपपत्तिमुपसंहरति-तस्मादिति / . ऐकात्म्ये परोक्तं बाधकान्तरमनुवदति दूषयितुं यदपीति / किमेकजीववादे बन्धमोक्षव्यवस्था न स्यादित्युच्यते अनेकजोववादे वा ? / आद्यं निरस्यति-तत्र न ताव