SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् नचैवं बालशरीरादिभेदेऽननुसन्धानप्रसङ्गः तस्याप्येकत्वात् / किं चाननुसन्धाने ह्यात्मभेदो न प्रयोजकः / अभेदेऽपि जन्मान्तरीयसुखाद्यननुसन्धानदर्शनात् / न च तत्र संस्कारविनाशादननुसन्धानम् / तस्यैव जन्मान्तरे जातिस्मरणेऽनुसन्धानात् / किं चाश्रयाभेदेऽनुभूयमानेऽनुसन्धीयमाने एव च सुखादेरनुभवानुसन्धानदर्शनात् तदाश्रयाभेदाज्ञानमेव तत्र प्रयोजकम् / जातिस्मृतिमतो योगिनां च कालातरीयदेशान्तरीयसुखाद्याश्रयाभेदाज्ञानाभावादनुसन्धानम्। देवदत्तस्य यज्ञदत्तास्माभेदाज्ञानन्न तदीयसुखाद्यनुभवस्तदनुसन्धानं वा। न च बालस्थविरदेहयोः परिमाणभेदाद्गुरुत्वभेदाच्च भेदस्यावश्यकत्वादभेदप्रत्यभिज्ञानं भ्रम इति वाच्यम् / जलूकादिषु परिमाणभेदेऽपि द्रव्यभेदाभावात् / इतरथोपविष्टाच्चैत्रादुत्थितस्य तस्य भेदः स्यात् / एकस्मिन्नपि गुरुत्वभेदस्य कालभेदेनावयवोपचयापचयाभ्यामेवोपपत्तेरित्युपादानवादे वक्ष्यते / नन्वेवमपि स्वप्ने देवादिशरीरेण भुक्तभोगस्य कथं जाग्रति मतुष्यशरीरेऽनुसन्धानमिति चेत् न / “प्राणेन रक्षन्नवरम् कुलायम्" इति श्रुतेः स्वप्नेऽपि जाग्रच्छरीरस्यानुवर्तमानत्वात् तदा तदभिमानाभावेऽपि वस्तुतस्तदुपहितस्यैव शरीरान्तराभिमानेन भोक्तत्वात्तदेकत्वनिबन्धनानुसन्धानोपपत्तिरिति भावः / आत्मभेदस्य व्यतिरेकयभिचारेणाननुसन्धानप्रयोजकत्वायोगाच्छरीरादिभेद एव तत्प्रयोजक इत्यभिप्रेत्याह-किं चेति / ननु जन्मान्तरीयभोगानुसन्धानप्रयोजकात्माभेदे सत्यपि संस्काररूपसहकारिविरहादेव तदननुसन्धानं न शरीरभेदादित्याशङक्य तज्जन्मनि जन्मान्तरीयानसन्धानाभावेऽपि पुनर्जन्मान्तरेऽदृष्टविशेषवतस्तदनुसन्धानदर्शनात् संस्काराभावायोगादित्यभिप्रेत्याह-न च तत्रेति / इदानीं योग्ययोगिसाधारणमनुसन्धानप्रयोजकमाह -किंचाश्रयेति / दुःखाद्याश्रयस्य स्वस्य चाभेदानुभवः स्वकीयत्वेन दुःखाद्य भवे प्रयोजकः, दुःखाद्याश्रयाभेदप्रतिसन्धानं च तथा तदनुसन्धाने प्रयोजकम् / तदभेदमात्रे सत्यपि जन्मान्तरीयदुःखानुसन्धानाद्यभावादित्यर्थः / एवं दुःखाद्यनुसन्धानादौ प्रयोजकमुक्त्वा तदभावे प्रयोजकमाह -तदाश्रयेति / उक्तानुसन्धानप्रयोजकस्य सार्वत्रिकत्वमाह -जातिस्मृतिमत इति / स्वा नदुःखाद्याश्रयाभेदानुसन्धानादेव जाग्रति स्वाग्नदुःखाद्यनुसन्धानमिति चार्थः / आश्रयाभेदेऽप्युक्तप्रयोजकाभावान्न परस्य परकीयदुःखाद्यनुभवानुसन्धाने इत्याह-देवदत्तस्येति / ननु यथा शिरःपादादिष्वात्मैक्यमनुभूयते, एवमनेकशरीरेष्वात्मैक्यमस्ति चेदनभूयेत / तथा च परकीयदुःखानुभवादिकमपि स्यादिति शङ्कते-नन्विति / तस्य प्रमातु
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy