________________ द्वितीयः परिच्छेदः . चिद्भिन्नस्याचित्वाद् दुःखादेर्जडधर्मत्वापत्तिरिति वाच्यम् / चित्येव भेदमात्रकल्पनया द्वितीयस्यापि चित्त्वात् अन्यथा द्वितीयश्चन्द्रो न स्यात् / न चैवं चैतन्यस्यैवानर्थयोगित्वात् तदात्मकब्रह्मावाप्तिर्मोलोऽपुरुषार्थः स्यादिति वाच्यम् / औपाधिकश्यामत्वादिवद् व्यवस्थितत्वात् तस्यावास्त वत्वाच्च। 'यत्तु ब्रह्मात्मकचैतन्यस्य दुःखाद्याश्रयत्वे तस्य नित्यमुक्तत्वश्रुतिविरोध इति, तन्न। कुसुमोपाधिनिमित्तारुणिम्ना स्फटिकस्वाभाविकस्वाच्छ्यानपायवत् कल्पितदुःखादिना स्वाभाविकमुक्त्यनपायात् / अविद्याभेदात्तदुपाधिकभेदजीवेष्वनुसंधानादिव्यवस्थेत्यन्ये / किंचादृष्टविशेषशून्यस्य शरीराभेद एवानुसन्धानप्रयोजकः / ननूक्तप्रकारेण चिन्मात्रस्यैव सर्वानन्वयित्वात्तद्रूपब्रह्मावाप्तिरपुरुषार्थः स्यादिति चेत् न / वुद्धयायुपहितचैतन्यस्यानुपहितब्रह्मचैतन्यादौपाधिकभेदवत्त्वादोपाधिकदुःखादेरपि स्वसमानसत्ताक भेदेन तत्रब व्यवस्थितत्वात्तद्भिन्नब्रह्मचैतन्यस्यानतिशयानन्दात्मकस्य नापुरुषार्थत्वप्रसङ्ग इति सदृष्टान्तमाह--न चैवमिति / किं चात्मन्यध्यस्तसर्वानर्थस्यात्मतत्त्वसाक्षात्कारेण बाधितत्वान्न मुक्तावनर्थप्रसक्तिरित्यभिप्रेत्याह-तस्येति / ननु ब्रह्मस्वरूपचैतन्यस्य बुद्धयाधुपाधिनिबन्धनदुःखाद्याश्रयत्वे 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति" "अन्यत्र धर्मादन्यत्राधर्मात्" इत्यादिश्रुतिविरोध इति चोद्यमनुवदति-यत्त्विति / आत्मनि वस्तुतोऽशनायादिराहित्यपरश्रुतेः औपाधिकावास्तवाशनायादिमत्त्वेन न विरोध इति सदृष्टान्तमाह-तन्नेति / एवमेकजीववादे भोक्तुरुपाध्यन्तःकरणभेदात् परकीयभोगाननुसन्धानमित्युक्तम्। अनेकजीववादे तु जीवोपाध्यविद्याभेदादेव तदननुसन्धानमित्याह-अविद्येति / इदानीं मतद्वयेऽपि शरीराभेदोऽनुसन्धाने प्रयोजकः, तद्भेदश्चाननुसन्धान इति पक्षान्तरमाह-किं चेति / न चैवं शरीरभेदेऽपि कथं जातिस्मृतिमतो जन्मान्तरीयभोगानुसन्धानमिति वाच्यम् / तस्यादृष्टविशेषमहिम्ना योगितुल्यत्वात्तद्व्यतिरिक्तविषयैवेयं चिन्तेत्यभिप्रेत्योक्तमदृष्टविशेषशून्यस्येति / नन्वेवं बालस्थविरदेहयोभिन्नत्वात्कथं स्थविरस्य बालदेहभोगानुसन्धानमित्याशक्य योऽसौ तदा बालः स एवेदानी स्थविर इति प्रत्यभिज्ञया देहैक्यसिद्धेर्न देहभेदप्रयुक्तदोष इत्याह--न चैवमिति /