________________ 68 सटीकाद्वैतदीपिकायाम् धर्मादेरप्यभावात् पुनरुत्थानाभावप्रसङ्गाद् / पिण्डीभूतान्तःकरणस्यैवाहमनुभवविषयत्वाद् द्रवीभूतान्तःकरणसत्त्वेऽपि विशेषविज्ञानाभावात्सुषुप्तिसंभवाच्च / अन्यथाऽविद्यावृत्त्यापि तद्भङ्गप्रसङ्गात् / न चान्तःकरणस्य सुखानुभवहेतुत्वे मुक्तौ तदभावात् स न स्यादिति नवीनोक्तं युक्तम् / अन्तःकरणं ह्यावृतसुखव्यञ्जकतया जीवानां तद्व्यवस्थापकं न तु स्वयं सुखविषयसाक्षात्काराश्रयः। स्वरूपानुभक्स्यैव तत्त्वात् / मुक्तौ तु सुखमनावृतमिति किमन्तःकरणविरहेण हीयते / न च बुद्धिकल्पितात्मनो दुःखाद्याश्रयत्वे करणस्य निरवशेषनाशे तत्कार्यवमदिरपि नाशात्पुनरुत्थानं न स्यादित्यर्थः। सुषुप्तावन्तःकरणस्याविनाशे जाग्रतीव तदनुभवः स्थादित्याशक्याह-पिण्डीभूतेति / स्थूलरूपेणाभिव्यक्तान्त:करणरयेत्यर्थः। “सुषुप्तिकाले सकले विलीन" इति सुषुप्तौ सर्वकार्यविलयश्रवणादन्तःकरणाविनाशे सुषुप्तिरेव न स्यादित्याशक्याज्ञानातिरिक्ततद्धेतुकलापस्य सूक्ष्मरूपतापत्तिरूपत्वात्, अन्यथा सुषुप्तौ धर्मादेरप्यभावप्रसङ्गादन्तःकरणस्यापि तादृशलयाङ्गीकारान्न सर्वलयश्रुतिविरोधः शब्दादिविषयसकलवृत्तिज्ञानाभावाच्च सुषुप्तित्वोपपत्तिरित्यभिप्रेत्याह--द्रवीभूतेति / सर्वकार्याभाव एव सुषुप्तिरिति वदन्तं स्वयूथ्यं प्रत्याह-अन्यथेति / 'सुखमहमस्वा'सम्, इतिपरामर्शहेतुसंस्कारजनकतया सुखाद्याकाराविद्यावृत्तेस्तदानीमावश्यकतया सर्वकार्याभावरूपसुषुप्तिर्न स्यादित्यर्थः। अन्तः करणभेदस्य परकीयभोगाननुसन्धानप्रयोजकत्वं वदतस्तस्यैव सुखादिभोक्तृत्वमभिप्रेतमिति भ्रान्तस्य चोद्यमपवदति-न चेति / स्रक्चन्दनादिविषयसंपर्कात्स्वरूपसुखाकारवृत्तिरूपेण परिणतमन्तःकरणंरवावच्छिन्नात्मानं प्रत्येव तत्सुखमभिव्यञ्जयत्तस्यैव 'अहं सुखी' इत्यादिप्रतिसंधानहेतुः न तु स्वयं सुखानुभवाश्रयतया तद्धेतुरित्याह-अन्तःकरणंहीति / न वेवमपि मुक्तौ सुखाभिव्यञ्जकान्तः करणाभावात् कथं सुखानुभव इत्याशंक्य ब्रह्मसाक्षात्कारेण सर्वावरणमूलाज्ञानस्य नष्टत्वात् तदा व्यंजकापेक्षैव नास्तीत्याह-मुक्ताविनि-ननु बुद्धितादात्म्याध्यासापन्नस्यात्मनः केवलचिदात्मभिन्नत्वेनाचित्त्वात् दुःखादेः तद्धर्मत्वे जडधर्मता स्यात् / तथा च बन्धमोक्षयोवैयधिकरण्यं इत्याशंक्य वस्तुतः चिद्रूपात्मन्येव बुद्धितादात्म्यस्य तदुपाधिकस्य चिद्भेदस्य दुःखादेश्च कल्पितत्वेन चिदात्मन एवाध्यासिकबन्धाश्रयत्वान्नोक्तदोष इत्याहन च बुद्धीति / चित्प्रतियोगिककल्पितभेदवत्त्वमात्रेणाचित्त्वे चन्द्रे चन्द्रप्रतियोगिककल्पितभेदाश्रये चन्द्रत्वं न स्यात् / तच्चायुक्तम् / भेद इव चन्द्रत्वांशे बाधकाभावादित्यभिप्रेत्याहअन्यथेति /