SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ . द्वितीयः परिच्छेदः न ह्यस्मदादयो महत्त्वं विना द्रव्यं न पश्यन्तीति योगिनोऽपि न पश्यन्ति / योगिनामप्यन्तःकरणं योगप्रभावाद्वैपुल्यं प्राप्त निखिलशरीरावच्छिन्नभोगहेतुरिति केचित् / एवं च संप्रतिपन्नान्तःकरणभेदस्यवाननुसंधानप्रयोजकत्वे संभवति तदर्थं श्रुतिविरुद्धान्यभेदोऽपि न कल्पनीयः / एतेनेदं प्रत्युक्तम्-अन्तकरणभेदादननुसंधानस्य ममासिद्धेः शरीरभेद इव तभेदोऽप्यप्रयोजक इति / लाघवगौरवन्यायस्य त्वयाऽप्यभ्युपगन्तव्यत्वात् / अन्यथा प्रतिवादिसिद्धमेव वादिनाऽपि साधनीयमिति नियमे गतं कथासङ्कथया। न चान्तःकरणस्य सुषुप्तौ विनाशातदिनाऽन्तरानुभूतं नानुसंदध्यादिति वाच्यम् / सुषुप्तावन्तःकरणस्यैव विलीनघृतवद्वर्तमानत्वात् / अन्यथा तदाश्रित- द्रव्यस्यचाक्षुषज्ञानविषयत्वे महत्त्वे सत्युद्भूतरूपवत्वं प्रयोजकमित्येतद्यथाऽस्मदादिज्ञानविषयमेव तद्रहितपरमाण्वादेरपि योगिचाक्षुषज्ञानविषयत्वात् / एवमन्तःकरणक्यादनुसंवानमित्यादिकमस्मदादिविषयमित्यर्थः / एवं परमतानुसारेण कायव्यूहेऽन्तःकरण'नानात्वमभ्युपेत्य परिहार उक्तः, सिद्धान्ते ल्वेकस्यैवान्तःकरणस्य संकोचविकासशीलस्य युगपदनेक शरीरव्याप्तिसम्भवाद्योगिनामनेकशरीरवर्तिभोगानुसन्धानमित्याह-योगि नामपीति / ननु चैत्रस्य मैत्रभोगाननुसन्धानमन्तःकरणभेदारात्मभेदाद्वा इत्यत्र नियामकाभावादुभयभेदोऽप्यननुसन्धानप्रयोजक इत्यत्राह-एवं चेति / अन्तःकरणभेदो नाननुसन्धानप्रयोजकः तत्त्वेन ममासम्प्रतिपन्नत्वात् शरीरभेदवदित्यनुमानविरोधादन्तःकरणभेदोऽपि न प्रयोजक इत्याशक्याह-एतेनेति / एतच्छब्दार्थमाह--लाघवेति / अन्तःकरणभेदस्यैव प्रयोजकत्वे प्रतिशरीरमात्मभेदे मानाभावात्तदैक्यमिति लाघवम् / इतरथाऽऽत्मानन्त्यम्, आत्मत्वजातिः, इत्यनेक कल्पनीयमिति गौरवम् / तथा च लाघवे संभवति गौरवस्यान्याय्यत्वादुक्तानुमानमप्रयोजकमित्यर्थः / विपक्षे बाधकान्तरमाह-- अन्यथेति / सर्वत्र पक्षे साध्यस्य प्रतिवाद्यसम्मतत्वाद्विपक्षदृष्टान्तेन तत्र तदभावस्य साधयितुं शक्यत्वात्किमपि न सिध्येदिति कथाप्रवृत्तिरेव न स्यादित्यर्थः / ननु ह्यस्तनान्तःकरणस्य सुषुप्तौ लीनत्वादद्यतनान्तःकरणं ततो भिन्नमिति वक्तव्यम् / तथा चाद्य शस्तनदुःखाद्य नुसंधानं न स्यादिति चेत् न। सुषुप्तावन्तःकरणस्य स्थूलाकारनाशेऽपि तदायनिर्वचनीयसूक्ष्मरूपेण तस्य विद्यमानत्वाद् दिनान्तरे तस्यैव स्थूलरूपेणानुवर्तमानत्वेन भेदाभावादित्याह--न चान्तःकरणेति / / - सुषुप्तावन्तःकरणस्य सर्वात्मना नाशे बाधकमाह-अन्यथेति / “विज्ञानं यज्ञं तनुते” “कामः संकल्प' इत्यादिश्रुत्याऽन्तःकरणस्यैव कर्मकर्तृत्वाभिधानात् सुबुप्तावन्तः
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy