________________ सटीकाद्वैतदीपिकायाम् न, सुखदुःखादयो ह्यन्तःकरणधर्माः, तदवच्छिन्नात्मधर्मा वा / अहं सुखीत्यनुभवात्, “कामः संकल्पः" इत्यादिश्रुतेः, परिशेषाच्च / अन्तःकरणोपहितात्मा च प्रतिशरीरं भिन्न इति नान्यानुभूतेऽन्यस्य स्मृतिः। जातिस्मरणेऽप्यन्तःकरणमेकमिति तदनुसंधानं युज्यते। न च कायव्यूहे योगिनामेवं सत्यनेकदेहे भोगानुसन्धानं न स्याद् अन्तःकरणभेदादिति वाच्यम् / तेषामुपासनामहिम्ना ईश्वरकल्पानां वशीकृतोपाधीनां परकीयसुखदुःखसाक्षात्कारवत्सर्वशरीरवर्तिभोगानुसंधानसम्भवात् / असर्वज्ञानामेवात्रानुसन्धानाननुसन्धानव्यवस्थाहेतोश्चिन्त्यत्वात् / चैत्रमैत्रदेहयोरात्मन एकत्वेऽपि भोक्तभेदान्न परस्परभोगानुसंधानमित्यभिप्रेत्य सुखादिभोगस्यान्तः करणपरिणामत्वं तदवच्छिन्नात्मन्यध्यस्तत्वं चाह न सुखेति / तत्समाधानम् तत्राहंकारावच्छिन्नात्मधर्मत्वे मानमाह - अहं सुखीति / अहमनुभवस्यान्तःकरणविशिष्टात्मविषयताया उक्तत्वात्तद्विषय एव च सुखादेरनुभवाच्छबलात्मधर्मत्वमित्यर्थः / अन्तःकरणपरिणामत्वे मानमाह-काम इति / एतत्सर्वं 'मन एव' इति कामादेर्मनस्तादात्म्याभिधानात्प्रकृतिविकारयोरेव च तादात्म्यसम्भवादिति भावः। दुःखादिकं सोपादानं भावकार्यत्वात् पटवदित्यनुमानात्पृथिव्यादेरहंत्वसमानाधिकरणतया प्रतीयमानदुःखाद्युपादानत्वायोगात् कूटस्थासङ्गचिदात्मनो हेतूपरागाभावेन दुःखादिपरिणामायोगात्परिशेषादपि दुःखादिरन्तःकरणधर्म एवेत्याह-परिशेषाच्चेति / दुःखादिधर्मिणः प्रतिशरीरं भेदे फलितमाह--अन्तःकरणेति / एकान्तःकरणावच्छिन्नस्यान्तःकरणान्तरवर्तिदुःखाद्यननुभवितृत्वान्न तस्य तदनुसन्धानं दुःखादिधर्म्यहंकारतादात्म्याभिमानरहितस्य सर्वसाक्षिणो ब्रह्मणः सर्वानुसन्धानमिष्टमिति भावः / ___ शरीरभेदोऽननुसन्धानप्रयोजक इत्यत्रोक्तदोषस्य नात्र प्रसङ्ग इत्याह-जातीति / ननु सौभादीनां युगपदनेकशरीरेषु भोगस्मरणादेककालीनानेकशरीरेष्वन्तःकरशैक्यायोगात्कथं तेषां सर्वशरीरभाविभोगानुसन्धानमिति चेत् न / तेषां योगमहिम्नेश्वरवद्वशीकृतमायत्वात् सर्वज्ञानां परकीयदुःखाद्यनुसंधानवदन्तःकरणभेदेऽपि स्वकीयसर्वभोगानुसन्धानोपपत्तेरित्याह-न च कायेति / कथं तद्यन्तःकरणैक्यमनुसंधाने प्रयोजकं, तद्भदस्त्वननुसंधाने इत्युक्तम् ? तत्राह-असर्वज्ञानामिति / ज्ञानविशेषविषयत्वप्रयोजकचिन्ताअस्मदादिज्ञानविषयैवेत्यत्रोदाहरणमाह---न होति /