________________ 65 द्वितीयः परिच्छेदः चत्रशब्देन तत्संबन्ध्यात्मैव परामृश्यत इति चेत्, न। मिपदेनापि शरीरोपहितात्मन एव परामर्श चत्रनिष्ठभेदस्य तज्ज्ञानानिवर्त्यत्वाभ्युपगमेन सिद्धसाधनत्वात् / भेदहेत्वज्ञानविरोधिब्रह्मज्ञानस्यैव भेदनिवर्तकत्वात् / अथ चैत्रस्य यत्स्वरूपं शुद्धचिदात्मरूपं तदेव धर्मोति चेत्, न। यथा नद्यः स्पन्दमानाः समुद्र ऽस्तं गच्छन्ति नामरूपे विहाय / तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् // इति निखिलस्यापि भेदस्य ब्रह्मज्ञानबाध्यत्वश्रुतिविरोधात्, चैत्रस्य मैत्रानुसंहितदुःखाननुसंधानस्यौपाधिकभेदेनोपपत्तरप्रयोजकत्वाच्च / ' उपाधिभेदेऽप्यनुसन्धानपूर्वपक्षः ननु हस्तपादाद्युपाधिभेदेऽप्यनुसंधानं दृश्यते पादे मे वेदना' 'शिरसि मे सुखम्' इति / न चावयवभेदेऽप्यनुसंधानप्रयोजकशरीरस्यकत्वात्तत्रानुसंधानम् / अत एव गर्भस्थस्य न मातृसुखाद्यनुसंधानमिति चैत्रादिशरीरभेदान्नान्यानुभूताद्यनुसंधानप्रसक्तिरिति वाच्यम् / जातिस्मृतिमतो जन्मान्तरीयस्याप्यनुसंधानदर्शनादिति चेत् / नन्वात्माज्ञानप्रयुक्तभेदस्यात्मज्ञानबाध्यत्वादुपहितस्यात्मत्वात्कथं तज्ज्ञानेन न तद्बाध इत्यत आह-भेदेति / / ___ भेदहेतुत्वम्-भेदप्रयोजकत्वम् / उपहितस्य वस्तुतोऽनुपहितादभेदेऽपि तेन रूपेण जीवेश्वरभेदप्रयोजकाज्ञानाविषयत्वादुपहितज्ञानस्य भेदप्रयोजकाज्ञानानिवर्तकत्वेन भेदबाधकत्वायोगात् / अज्ञानविष्यप्रत्यग्ब्रह्म क्यज्ञानस्यैव भेदप्रयोजकाज्ञाननिवर्तनेन भेदबाधकतेत्यर्यः / तृतीयं शङ्कते-अथेति / चैत्रशरीरोपलक्षितचिदात्मन एव मैत्रशरीरेऽपि दुःखानुसंधातृत्वादसिद्धो हेतुरित्यभिप्रेत्य दूषयति-नेति / . आत्मतत्त्वज्ञानादभिधानाभिधेयमात्रविलयश्रवणाज्जीवभेदस्यात्मज्ञानाबाध्यत्वसाधनं बाधित विषयं चेत्याह-यथा नद्य इति / पक्षत्रयेऽपि साधारणं दोषमाह-चैत्रस्येनि / ननु चैत्रस्य मैत्रप्रतियोगिकौपाधिकभेदमात्रान्नतदीयदुःखाननुसंधातृत्वमुपपद्यते सत्य'योपाधिकभेदे यस्य मे पादे वेदना तस्य मे शिरसि सुखमित्येकस्यैवोभयानुसंधानदर्शनात् / तथा च नाप्रयोजकत्वमिति शङ्कते--ननु हस्तेति / शरीररूपोपाधिभेद एवाननुसंधानप्रयोजकः। शिरआदौ तु शरीरैक्यादनुसंधानम्। गर्भस्यजन्तोरपि शरीरभेदादेव न मातृभोगानुसंधानम् / ततश्च चैत्रस्यापि शरीर भेदादेव न मैत्रभोगानुसंधानं, न त्वात्मभेदादिति न शङ्कनीयम् / शरीरभेदेऽपि कस्य चिज्जन्मान्तरीयभोगा नुसन्धानदर्शनादित्याह-न चेत्यादिना /