________________ सटीकाद्वैतदीपिकायाम् जीववदित्याभाससाम्यं प्रत्युक्तम् / वास्तवभेदनिषेधे सिद्धसाधनात्, कल्पितभेदनिषेधे प्रत्यक्षादिबाधात्, बाधितेऽर्थे लाघवानवतारात् / न चात्रापि प्रत्यक्षबाधः। तस्याबाधिताभेदाविरोधात् / एतेन जीव एव विशिष्टप्रसिद्धिरिति तत्रैव कथं तदभावसानिमिति प्रयुक्तम् / रजतवत्यपि शुक्तिस्थले तनिषेधवदुपपत्तेः / जीवे ब्रह्मप्रतियोगिककल्पितभेदाभावानुमानमपि प्रत्यक्षादिविरोधेन प्रत्याख्येयम् / एतेन जीवानामप्यन्योन्यं भेदो निरस्तः। नवीनशङ्कानिरासः यत्वत्र नवीनोक्तं "चैत्रो मैत्रप्रतियोगिकर्मिज्ञानाबाध्यभेदवान् मैत्रानुसंहितदुःखाननुसंधातृत्वाद् घटवत्" इति, तदसत्। सिद्धसाधनत्वात् / न हि चत्रशब्दाभिधेयशरीरविशिष्टात्मज्ञानबाध्यं मैत्रभेदमाचक्षते वेदान्तिनः / ननु चैतत्साध्ये हेतुरप्रयोजक एव इत्यभिप्रेत्याह--कल्पितेति / जीवेऽपि ब्रह्मभेदनिषेधे प्रत्यक्षबाधादितुल्यमित्याशङक्य तस्य व्यावहारिकभेदविषयस्य न पारमार्थिकाभेदेन विरोध इत्याह--न चात्रापीति / ननु जीवत्वे सति ब्रह्मप्रतियोगिकभेदवत्त्वस्यान्यत्राभावाद् जीवे एव प्रसिद्धिवक्तव्या, तथा च तत्र तस्य प्रामाणिकत्वेऽप्रामाणिकत्वे वा निषेधानुपपत्तिरिति चोद्यमयुक्तमित्याह--एतेनेति / एतेनेत्येतद्विवृणोति-रजतवत्यपीति / न च शुक्तौ देशान्तरीयरजतमेव निषिध्यत इति वाच्यम्। तत्र तस्य प्रसवतयसंभवेन निषेधायोगात्, अन्यथाख्यातेनिरसिष्यमाणत्वात्। न चाभासप्रसक्त्यैव तत्प्रसक्तिरिति वाच्यम् / अन्यप्रसक्तेरन्यविषयत्वेऽतिप्रसङ्गात्, अनिर्वचनीयरजतस्य स्वाधिष्ठाने पारमार्थिकस्वात्यन्ताभावाविरोधेन तत्र त्रैकालिकनिषेधस्य तद्विषयत्वोपपत्तौ देशान्तरीयरजतविषयत्वकल्पनायोगाच्चेति भावः / जीवाः परमात्मनो व्यवहारतोऽपि न भिद्यन्ते आत्मत्वात् परमात्मवदितिनवीनोक्ताभाससाम्यमपि निरस्तमित्याह--जीव इति / अहमर्थातिरिक्तजीवस्याद्वितीयब्रह्माभिन्नत्वात्प्रतिशरीरं भेदे प्रमाणाभावाच्च जोवनानात्वमपि निरस्तमित्याह एतेनेति / / ___ जीवभेदे परोक्तप्रमाणं दूषयितुमनुवदति-यत्त्वत्रेति / किं चैत्रपदेन शरीरविशेषविशिष्ट आत्मा विवक्षितस्तदुपहितस्तदुपलक्षितो वा ? / आद्यं दूषयति-तद्सदिति / द्वितीयं शङ्कते-नन्विति / धमिशब्देन प्रकृतपरामशित्वस्य त्वयैवोक्तत्वाच्छरोपहितास्मैव धर्मिशब्दार्थो वक्तव्यः। तथा च तनिष्ठभेदस्य मिथ्यात्वेऽपि उपहितात्मज्ञानबाध्यत्वानभ्युपगमात्सिद्धसाधनमित्याह-न धर्मीति / .