SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः एवं ब्रह्मपक्षकानुमानम् / जीवप्रतियोगिको भेदः ब्रह्मणि स्वसत्ताविरोध्यत्यन्ताभावप्रतियोगी भेदत्वाद् ब्रह्मभेदवत् / एवं ब्रह्मभेदपक्ष कानुमानम् / ब्रह्मणो घटभेदे व्यभिचारपरिहारः न च घटादिभेदे व्यभिचारः तस्य पक्षसमत्वात् / तत एव तत्रापि साध्यसिः। यद्वा जीवो जीवत्वे सति ब्रह्मप्रतियोमिकभेदवान्न भवति पदार्थत्वात्, घटादिवत् तर्कसद्भावे विशिष्टव्यतिरेकिणोऽपीतरानुमानवत् स्वसाध्यसाधकत्वात, तर्काभावेऽन्यस्याप्यनुमानस्य स्वसाध्यासाधकत्वात् / तर्कश्चात्रोक्त एव / अत एव प्रपञ्चो जडत्वे सति ब्रह्मप्रतियोगिकभेदवान्न भवति पदार्थत्वात् जीवनिष्ठात्यन्ताभावप्रतियोगिभेदप्रतियोगि, स्वस्यासर्वज्ञाभेदाविरोधिम्मेदप्रतियोगिताक, जीवनिष्ठभेदप्रतियोगि न भवतीति वा। तत एव, जीववत्" इत्यपि प्रयोक्तव्यमित्याह-वमिति / भेदपतकानुमानमयाह--जीवेति / ब्रह्मप्रतियोगिकभेदे सिद्धसाधनतावारणाय जीवप्रतियोगिक इत्युक्तम् / अत्र जीवपक्षकाद्यसाध्यवत् साध्यविशेषणकृत्यं द्रष्टव्यम्। ब्रह्मप्रतियोगिकभेदो जीवे स्वसत्ताविरोध्यत्यन्ताभावप्रतियोगी भेदत्वात् जीवभेदवदित्यपि प्रयोक्तव्यमित्याह--एवमिति / ननु ब्रह्मणो जीवेनेव घटादिनाऽभेदाभावात्तत्र घटभेदः सत्य एव / तथा च तत्र व्यभिचार इति / नेत्याह-न चेति / ___घटादिवत्तत्प्रतियोगिकभेदस्थाप्यनिर्वचनीयत्वात् पक्षसमत्वं, तथा च न तत्र व्यभिचार इत्यर्थः / घटादिभेदस्य पक्षसमत्वे तत्र केन हेतुना साध्यसिद्धिरित्याशङ्क्यास्मादेव हेतोरित्याह--तत एवेति / अनेन न्यायेन पदार्थत्वादिति हेतोरपि घटादौ व्यभिचारशा निरसनीयेति भावः। विशिष्टव्यतिरेकिणापि जीवे ब्रह्मभेदाभावं साव्यति-यति / घटादौ साध्यवैकल्यपरिहाराय जीवत्वे सतीत्युक्तम् / जीवत्वविशिष्टब्रह्मप्रतियोगिकभेदवत्त्वस्याभावो जीवत्वाभावाद् ब्रह्मप्रतियोगिकभेदवत्त्वाभावादुभयाभावाद्वा सिध्यति। घटादी जीवत्वरूपविशेषणाभावाद्विशिष्टाभावसिद्धिः। जीवे तु विशेष्याभावमादाय विशिष्टाभावसिद्धावज्जीवत्वस्याप्यभावसिद्धिः। विशिष्टव्यतिरे किणः सर्वत्रापि प्रसरादतिप्रसङ्गेन न प्रामाण्यमित्याशक्य सर्वत्र तर्काभावान्नातिप्रसङ्ग इत्यभिप्रेत्याह--तति / तहि प्रकृतसाध्येपि तर्काभावादप्रयोजको हेतुस्त्यिाशय लाघवाद्यनेकतर्काणानुक्तत्वान्मेवमित्याह--तर्कश्चेति / प्रकृतसाव्यस्य तर्कसध्रीचीनत्वादेव तद्रहिताभाससाम्यमपि नेत्याह--अत एवेति / नन्वत्रापि लाघवतर्कोऽनुकूलोऽस्तीत्याशक्य किं प्रपञ्चे ब्रह्मप्रतियोगिकः पारमार्थिको भेदो निषिध्यते उत कल्पितः ? / आयेद्धतवादिमते सिद्धसाधनमित्याह--वास्तवेति / द्वितीये प्रत्यक्षप्रतीतलौकिकवैदिकव्यवहारविरोधाल्लाघवतर्क एव नाबतरति / तथा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy