________________ सटीकाद्वैतदीपिकायाम् रिक्तानधिकरणकात्यन्ताभावप्रतियोगिभेदप्रतियोगी, ब्रह्मनिष्ठात्यन्ताभावप्रतियोगिभेदप्रतियोगी, स्वस्यासंसार्यभेदाविरोधिभेदप्रतियोगी, ब्रह्मनिष्ठभेदप्रतियोगी न भवतीति वा, पदार्थत्वात् चैतन्याभाववन्मात्रवृत्तिधर्मानधिकरणत्वाद्वा ब्रह्मवत् / मिति न शङ्कनीयम् / अत्र जीवप्रतियोगिकभेदात्यन्ताभावस्य जीवतादात्म्यादिरूपस्य जीवब्रह्मणोस्तिवभेदे ब्रह्मातिरिक्तानधिकरणकत्वायोगात पोरभेदसिद्धिः / आरोपिताभावोऽधिष्ठानातिरिक्तस्तदाश्रित इति मतेन साध्यानरमाह--ब्रह्मनिष्ठेति / न चात्र जीवप्रतियोगिकभेदस्य ब्रह्मण्यरोपितात्यन्ताभावप्रतियोगित्वेनार्थान्तरतेति वाच्यम् भेदप्रमाविरोधेन ब्रह्मणि तदभावारोपायोगादित्युक्तत्वात् / परमते आरोपस्यासद्विषयत्वेना रोपितस्यापि भेदाभावस्य ब्रह्मनिष्ठत्वायोगादिति भावः। मतद्वयसाधारणं साध्यान्तरमाह-स्वस्येति / स्वशब्दः समभिव्याहृतपरः स्वस्यासंसारिणो योऽभेदः तस्याऽविर धिनी या भेदप्रतियोगिता तद्वानित्यर्थः / अत्राप्यारोपिताभेदेनार्थान्तरता पूर्ववन्निरसनीया। घटादेरप्यसंसारिस्वाभेदप्रतियोगित्वात् न तत्र व्यभिचारः।। एवं स्वाभिमताभेदं प्रसाध्य पराभिमतभेदनिषेधाय साध्यान्तरमाह--ब्रह्मनिष्ठेति / ब्रह्मनिष्ठसत्यभेदप्रतियोगी नेत्यर्थः / न च सिद्धान्ते निषेध्याप्रसिद्धिर्दोषः / परप्रसिद्धिमात्रेण निषेधोपपत्तेः / __ अथ वा यथाश्रुतमेव साध्यमस्तु / न च जीवस्य ब्रह्मपारोपितभेदप्रतियोगित्वाङ्गीकारात्तदभावसाधने बाध इति वाच्यम् / जीवे तादृशभेदप्रतियोगित्वस्यारोपितत्वेन तदभावाविरोधात् / ननु घटादो ब्रह्मनिष्ठभेदप्रतियोगित्वं नारोपितं किंतु रूपादिवत्तदवच्छिन्नचैतन्ये एव / इतरथा घटज्ञानादेव तन्निवृत्तिप्रसङ्गात् / तथा च घटे तदभावाभावाद् व्यभिचार इति चेत्, न। द्वितीयहेतोरेवैतत्साधकत्वेन विवक्षितत्वादिति भावः ।-चैतन्याभाववदिति / चैतन्याभाववद्धटादि तन्मात्रवृत्ति घटत्वादि तदनधिकरणत्वादित्यर्थः। धर्मानधिकरणत्वस्य परमतेऽसिद्धत्वाच्चैतन्येत्यादि विशेषणम् / न चासिद्धिवारकस्यैतस्य हेतुविशेषणत्वमयुक्तमिति वाच्यम् / विशेष्यमात्रस्य कुत्रा यसिद्धत्वेन तेन विना व्याप्तिग्रहस्याप्यसंभवात्, तद्ग्रहेऽपि तस्योपयुक्तत्वात् / ननु सिद्धान्ते चिद्रूपात्मनश्चैतन्याभाववत्त्वं वाच्यम् / अत्यन्ताभावस्य प्रतियोगिवृत्तित्वनियमात् / इतरथा घटेऽपि घटः स्यात् / तथा चात्मधर्मस्य चैतन्याभावववृत्तित्वात्तदनधिकरणत्वमात्मन्यसिद्धमिति चेन्न। अभावस्थ स्वाभावानधिकरणत्ववद्भावस्यापि स्वाभावानधिकरणत्वात् / न चाभावानधिकरणस्य प्रतियोग्यधिकरणत्वनियमः / घटाभावे व्यभिचारात् / चिद्रूपात्मनश्चैतन्याभाववत्त्वेऽपि तवृत्तिधर्माणां तत्रारोपितवेन तदनधिकरणत्वस्यापि संभवादिति भावः / “ब्रह्म जीवे स्वसत्ताविरोध्यत्यन्ताभावप्रतियोगिभेदप्रतियोगि, जीवातिरिक्तानधिकरणकात्यन्ताभावप्रतियोगिभेदप्रतियोगि,