________________ द्वितीयः परिच्छेदः जीवब्रह्माभेदे अनुमानानं अनुमानमपि--मुक्त्यन्वयिजीवस्वरूपं ब्रह्माभिन्नं चेतनत्वाद् ब्रह्मवत् / चेतनत्वं च ज्ञातृत्वम् / तच्च सर्वज्ञे ब्रह्मणि जीवे च नासिद्धम् / अथवा प्रकाशत्वादिति हेतुः / न चासिद्धिः। साधितत्वात् / न च पक्षदृष्टान्तयोभैदे बाधः, अभेदे च दृष्टान्तासिद्धिरिति वाच्यम् / कल्पितभेदेन दृष्टान्तोपपत्तेः, तस्य स्वाभावाविरुद्ध त्वेन बाधाभावाच्च / न चाप्रयोजकत्वम् / अबाधितचेतननानात्वाभ्युपगमे गौरवात्, श्रुतिविरोधाच्च। / जीवब्रह्माभेदे मानान्तराणि __ जीवो ब्रह्मणि स्वसत्ताविरोध्यत्यन्ताभावप्रतियोगिभेदप्रतियोगी, ब्रह्माति ज्ञातृत्वं नाम ज्ञानाश्रयत्वम् / तच्च ज्ञानरूपे जीवे ब्रह्मणि चासंभवीत्याशङ्क्य वस्तुतस्तस्यासंभवेऽपि कल्पितभेदाधीनस्य व्यवहारसमर्थस्य ज्ञातृत्वस्योभयत्रापि संभवान्नोक्तदोष इत्यभिप्रेत्याह-तच्चेति / ज्ञातृत्वापेक्षया ज्ञानत्वस्य लघुत्वात्स एव वा हेतुरित्याह-अथ वेति / न च परमते जीवस्य ज्ञानाश्रयत्वातत्र ज्ञानत्वमसिद्धमिति वाच्यम् / ज्ञानात्मनोरभेदस्य साक्षिविवेके साधितत्वादित्याह--न चेति / नन्वत्र पक्षदृष्टान्तयोर्भेदोऽस्ति न वा?। आये भिन्नयोरभेदसाधने बाधः / द्वितीयेऽपि किं पक्षस्य दृष्टान्तेऽन्तर्भावो, दृष्टान्तस्य वा पक्षे ? / आद्ये दृष्टान्तस्य निश्चितसाध्यवत्त्वात् पक्षत्वाभावः, द्वितीये पक्षस्य संदिग्धसाध्यवत्त्वाद् दृष्टान्तत्वाभाव इति चेत्; न। 'सागरः सागरोपम" इत्यादिवत्कल्पितभेदेनापि पक्षदृष्टान्तभावोपपत्तेः, इत्याह-- न चेत्यादिना / ननु भिन्नयोरभेदस्य विरुद्धत्वात् तत्साधने बाध इत्याशक्य भेदस्याभेदसमसत्ताकत्वाभावान्न तेन विरोधोऽतो न बाध इत्याह--तस्येति / हेतुद्व यस्याप्रयोजकत्वं निराकरोति-न चेति / गौरवादिति / चेतननानात्वस्याप्रामाणिकत्वादेरुक्तत्वादप्रामाणिकं गौरवमेव विपक्षे बाधकमिति भावः। भेदस्य वास्तवत्वे तनिषेधश्रुतिप्रामाण्यभङ्गश्च स्यादित्यभिप्रेत्याह--श्रुतीति / जीवब्रह्माभेदे प्रपञ्चसाध्यकानुमानमप्याह--जीव इत्यादिना / ब्रह्मणि स्वसत्ताविरोधीति / स्वस्थ भेदस्य ब्रह्मण्यबाध्यत्वरूपसत्त्वविरोधी योऽत्यन्ताभावस्तत्प्रतियोगी यो भेदस्तत्प्रतियोगीत्यर्थः / जीवप्रतियोगिकभेदस्य जीवे स्वसत्ताविरोध्यत्यन्ताभावप्रतियोगित्वेन सिद्धसाधनतावारणाय ब्रह्मणीत्युक्तम् / ब्रह्मण्यारोपिताभावप्रतियोगिभेदप्रतियोगित्वेनान्तिरतावारणाय, भेदाभावस्य ब्रह्मरूपत्वमते बाधवारवारणाय वा स्वसत्ताविरोधीत्युक्तम् / भेदात्यन्ताभावः प्रतियोगितादात्म्यं, प्रतियोगितावच्छेदकधर्मो वेति मतेन साध्यान्तरमाह--ब्रह्मातिरिक्तति / तथा च ब्रह्मातिरिक्तानधिकरणकजीवरूपात्यन्ताभावप्रतियोगिभेदप्रतियोगित्वं जीवे परमतेऽप्यस्तीति सिद्धसाधन