SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 60 सटीकाद्वैतदीपिकायाम् गतप्रतीत्यनुपपत्तेश्च / नापि वैलक्षण्यं भेदः / असाधारणधर्मनिरासेनैव निरस्तत्वात् / एकस्याप्यात्मनः परमते बुद्धचाद्यनेकलक्षणवत्वाच्च / विरुद्धलक्षणयोगित्वं वलक्षण्यमिति चेत् / यदि परस्परात्यन्ताभावसमानाधिकरणत्वं विरोधः, तहि सुखादावपि समानम् / अथ परस्परात्यन्ताभावेनैव समानाधिकरणत्वं, तन्न / घटादौ वैलक्षण्यज्ञानं विनाऽत्यन्ताभावप्रतियोगित्वस्य दुनिरूपत्वात् / अथ परस्पराश्रयभेदसमानाधिकारणत्वं, न, परस्पराश्रयात् / / तस्माद् जीवेशभेदे प्रमाणाभावात् तस्य स्वरूपतोऽपि दुनिरूपत्वाच्चन्द्रादिभेदवद् भ्रान्तिमात्रशरीरो जीवब्रह्मभेद इति / अभेदे च श्रुतिः प्रमाणमुक्तम् / स्वरूपभेदं च निराकृपवलक्षण्यं भेद इति कल्पं निराकरोति-नापीति / विविधलक्षणवत्त्वं हि वैलक्षण्यम् / लक्षणं चसाधारणधर्म एव / तस्य च भेदत्वनिरासादेवेदमपि निरस्तमित्यर्थः / किं विविधलक्ष योगित्वमेव वैलक्षण्यं विरुद्धलक्षणयोगित्वं वा ? / आद्ये परमते एकस्याप्यात्मनोऽनेकत्वप्रसङ्ग इत्याह-एकस्येति / द्वितीयं शङ्कते-विरुद्ध ति / घटत्वपटत्वादिलक्षणस्य किं परस्परात्यन्ताभावेन सामानाधिकरण्यं विरोध उत तेनैव सामानाधिकरण्यं, किं वा परस्पराश्रयभेदसामानाधिकरण्यम् ? / आद्ये बुद्धिसुखदुःखादीनामव्याप्यवृत्तित्वेन परस्परात्यन्ताभावसमानाधिकरणानां विरुद्धलक्षणत्वेन त:धिकरणभेदप्रसङ्ग इत्यभिप्रेत्याह-यदीति / द्वितीयं शङ्कते--अथेति / अत्र परस्परासमानाधिकरणत्वमेवकारार्थ इति वक्तव्यम् / असमानाविकरणत्वं च भिन्नाधिकरणत्वम् / तथा च घटत्वस्य स्वाश्रयभिन्नाधिकरणकपटत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं पटत्वेन विरोध इति सिद्धयति / एवं च घटपटयोर्भेदसिद्धौ घटत्वस्य स्वात्रयभिन्नाधिकरगकपटत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपविरोधसिद्धिः, तत्सिद्धौ च विरुद्धलक्षणरूपभेदसिद्धिरित्यन्योन्याश्रय इत्याह--न घटादाविति / तृतीयं शङ्कते-अथेति / अत्र परस्पराश्रयः स्पष्ट एवेति दूषयति-नेति / भेदे प्रमाणादिनिराकरणफलमाह-उस्मादिति / अभेदेऽपि मानाभावात्सोऽयपरमार्थ इत्याशक्य' "नान्योऽतोऽस्ति” इत्यादिश्रुतेस्तत्परताया निरूपितत्वात्सा तावत्तत्र मानमित्याह -अभेद इति / ___ अनुमानमप्यभेदे मानमित्याह---अनुमानमिति / अत्र चान्तःकरणातिरिक्तोऽहमनुभवे प्रकाशमानः पक्षः। तथा च मुक्तिरूपस्यात्मनो मुक्त्यन्वयित्वाभावात् पक्षासिद्धिरिति न शङ्कनीयम् -ब्रह्याभिन्नमिति / ब्रह्मभेदरहितमित्यर्थः / तथा च परमते भेप्रतियोगिकाभावे तदभावान्तराभावेऽपि तत्स्वरूपविशेष एव यथा प्रतियोगिरूपभेदरहित इत्युच्यते, एवं ब्रह्मभेदाभावस्वरूप एवात्मा स्वातिरिक्तभेदाभावाभावेऽपि ब्रह्मभेदरहित इति संभवान्न बाध इति द्रष्टव्यम् / ननु चेतनत्वं जातिरुपाधिर्वा ? / नाद्यः। ऐकात्म्ये तदयोगात् / न द्वितीयः / तदनिरूपणादित्यत आह-चेतनत्वं चेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy