________________ द्वितीयः परिच्छेदः .. तदुपपत्तेः। एतेनास्तु तीभेदवद्धेदोऽपि स्वरूपमिति नवीनोक्तं प्रत्युक्तम् / स्वरूपं व्यक्तिः, असाधारणो धर्मो वा ? / नाद्यः। शुक्त्यादौ रजताद्य नारोपप्रसङ्गात् / इदमिति ज्ञानस्य शुक्तिविषयत्वेन भ्रमविरोधिभेदस्य गहीतत्वात् / ब्रह्मणि तु स्वरूपप्रकाशाविरुद्धानादिभावरूपाज्ञानाख्यविवेकाग्रहाद् भेदादिभ्रमः। न द्वितीयः / स्वर्णत्वेन स्वर्ण जानतां तस्य पृथिव्याद्यभेदसंशयाद्यभावप्रसङ्गात भेदाऽग्रहाभावात् / घटत्वाद्याश्रयः पटादिभ्यो भिन्न इति प्रयोगाद्यनुपपत्तेश्च / घटत्वस्यैव तद्भेदत्वात् / भेदस्य स्वरूपत्वे द्रव्यगुणादिषु घटादिभेदानु पत्तिरित्याशङ्क्य परमते भेदो भिन्न इतिवत् कल्पितभेदेनापि तदुपपत्तिरित्याह-- नन्वमित्यादिना / अभेदस्य निष्प्रतियोगिकभावस्वरूपत्वे भेदस्यापि तथात्वान्नोक्तान्योन्याश्रयादिदोष इति चोद्यं वक्ष्यमाणविधया निरस्तमित्याह--एतेनेति / भेदोऽपि स्वरूपमित्यत्र स्वयं च तद्रूपं चेति वस्तुमात्रं विवक्षितं, स्वस्य रूपं स्वरूपमित्यसाधारणधर्मों वा ? इत्यभिप्रेत्य विकल्पयति-स्वरूपमिति / वस्तुमात्रस्यैव तदितरभेदत्वे तद्ग्रहस्यैव भेदाग्रहविरोधित्वात् तस्य च भेदभ्रमविरोधित्वात् कुत्रापि भ्रमो न स्यादित्याह--नाद्य इति / सिद्धान्तेऽपि ब्रह्मस्वरूपाभेदे स्वतः प्रकाशमाने कथं भेदभ्रम इत्याशक्य तत्प्रकाशस्य तद्विषयभावरूपाज्ञानाविरुद्धत्वात्तन्मूलभ्रमोपपत्तिरित्याह--ब्रह्मणीति / द्वितीयेऽप्यसाधारणधर्मग्रहस्थैव भेदग्रहत्वात्स्वर्णे स्वर्णत्वग्रहस्य पृथिव्यादिभेदग्रहत्वाभेदाग्रहरूपकारणाभावात् तत्र पृथिव्याद्यभेदसंशयो न स्यादित्याह-न द्वितीय इति / ननु स्वर्णे तेजस्त्वमेवेतरभेदः तदज्ञानादेव पृथिव्याद्यभेदसंशयादिरिति चेत् तहि घटादिभ्योऽपि भेदाग्रहाग्रहात्तदभेदसंशयोऽपि स्यात् / ननु स्वर्णे घटादिभ्यो भेदः स्वर्णत्वमेव तस्य तत्र ज्ञातत्वान्न घटाद्यभेदसंशयः पृथिवीत्वाद्यवच्छिन्नप्रतियोगिकभेदस्तु स्वर्णे तेजरत्वं तस्य तत्राज्ञानात्तदभेदसंशयादिरिति चेत् न। स्वर्णत्वतेजस्त्वयोः स्वतो निष्प्रतियोगिकत्वेनैवं व्यवस्थायां मानाभावात् / अन्यथा पृथिवीत्वादेरपि तेजस्त्वावच्छिन्नप्रतियोगिकत्वापातेन तेजस्त्वज्ञाने तदवच्छिन्नप्रतियोगिकपृथिवीत्वज्ञानं, तज्जाने च तदवच्छिन्नप्रतियोगिकतेजस्त्वज्ञानमिति परस्पराश्रयः स्यात् / किं चैवमपि स्वर्णस्य स्वर्णान्तराभेदो न स्यात् / तत्रापि तत्र्णत्वधर्म एवेतरस्वर्णाभेद इति चेत् किं तद्धर्मेऽपि कश्चिदसाधारणधर्मोऽस्ति, न वा ? / अन्त्ये तस्येतरभेदो न स्यात् / आये तस्यायसाधारणधर्मान्तरमित्यनन्ताप्रामाणिकधर्मकल्पनागौरवमिति भावः। असाधारणधर्मस्यैवेतरभेदत्वे तदनुवादेनेतरभेदविधायकशब्दप्रयोगस्तत इतरभेदानुमानं च न स्यादित्याह--घटत्वादीति / किं च पटादिद्रव्येषु गुणादिपदार्थेषु च घटभेदो घटभेद इत्येकाकारधीदृश्यते। वस्तुनस्तदसाधारणधर्मस्य वा भेदत्वे तेषामन्योन्यविलक्षणत्वेनैकाकारबुद्ध्यनुपपत्तिरित्याह-भेदस्येति / अन्योन्याभावो भेद इति कल्पं अभेदप्रसङ्गागत