SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 58 सटीकाद्वैतदीपिकायाम् अत एवातिरिक्तभेदाभावानभ्युपगमे वेदान्तानामात्ममात्रप्रमेयतया न प्रत्यक्षादिबाधकता तद्विषयभेदस्य वेदान्तप्रमेयाविरोधात् / न हि भेदप्रपञ्च आत्मना विरुद्धयते। न चाद्वितीयात्मा भेदप्रपञ्चविरोधीति वाच्यम् / अद्वितीयशब्दस्यापि तव मते आत्ममात्रार्थत्वादिति निरस्तम् / किं वेदान्तजन्यज्ञानात् प्रत्यक्षादेस्तद् गोचरभेदस्य च निवृत्तिर्न स्यादित्युच्यते किं वा वेदान्तात्तद्गोचरमिथ्यात्वनिश्चयो न स्यादिति ? / नाद्यः / अविद्याकार्यतया प्रपञ्चस्य ब्रह्मसाक्षात्कारेणाविद्यानिवृत्ती निवृत्तेः / न द्वितीयः वाचारम्भणादिवाक्यतात्पर्यात्तत्सिद्धः सत्यादिवाक्यपर्यालोचनयापि त्रिविधपरिच्छेदशून्यं ब्रह्मेति सिद्धौ ब्रह्मैव प्रपञ्चसत्ताविरोद्धयभावात्मकं सिद्धयतीति तत्रप्रतीयमानस्यापि मृषात्वसिद्धिः / ब्रह्म अभिन्नमितिप्रयोगोपपत्तिः नन्वेवं ब्रह्माभिन्नमिति प्रयोगो न स्यात् / एकस्य विशेषणविशेष्यभावानुपपत्तेरिति चेत्त् न। स्वरूपभूताभेदस्यैव प्रतियोगिघटिततया कल्पितभेदवत्त्वेन सदादिस्वभावस्यैवात्मनो भेदसत्ताविरोधितदभावात्मनापि शास्त्रेण प्रतिपाद्यमानत्वादेव चोद्यान्तरमपि निरस्तमित्याह-अत एवेति / ननु “एकमेवाद्वितीयम्" इत्यादिश्रुतेः सजातीयादिभेदरहितात्मपरत्वाद्भेदप्रत्यक्षादिबाधकतेत्याशक्य तस्याप्यात्मातिरिक्तभेदाभावागोचरत्वादात्ममात्रस्य भेदाविरोधित्वात् मैवमित्याह-न चाद्वितीयेति / वेदान्तानामात्मतत्त्वमात्रपरत्वे किं सविलासाविद्यानिवृत्तिरूपबाधहेतुज्ञानजनकत्वं न स्यादित्युच्यते, किं वा प्रपञ्चगोचरमिथ्यात्वनिश्चयरूपबाधजनकत्वं न स्यादिति विकल्पयति-किं वेदान्तेति / / वियदादिप्रपञ्चस्यात्मविषयाज्ञानकार्यत्वाद्वेदान्तजात्मतत्त्वसाक्षात्कारात् तदज्ञाननिवृत्तौ तत्कार्यनिवृत्तेरपि संभवान्न प्रथमः कल्प इत्याह--नाद्य इति / ___"वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" इत्यादिवाक्यैर्घटशरावोदञ्चनादिविकारजातं वाचा व्यबह्रियते केवलं तत्तन्नामधेयव्यतिरेकेण तदेव नास्ति / मृदात्मककारणमेव सत्यं, न कार्यरूपमित्युक्त्वा “एवं सौम्य स आदेशो भवति" इति दार्टान्तिकश्रुत्या जगत्कारणसदात्मैव सत्यः, तत्कार्ष जगदसत्यमित्यवान्तरतात्पर्येणाभिधानाद्वेदान्तानां प्रपञ्चमिथ्यात्वनिश्चायकत्वरूपमपि बाधकत्वमस्तीत्याह-न द्वितीय इति / अनन्तपदयुक्तसत्यादिवाक्यादपि सदूपब्रह्मणस्त्रिविधपरिच्छेदराहित्यप्रतिपत्तेर्जडाजडयोर्वास्तवतादात्म्बायोगात् प्रपञ्चमिथ्यात्वनिश्चयपुरस्सरमेव तदानन्त्यसिद्धिरित्याह-सत्यादीति / अभेदब्रह्मणोर्भेदाभावे तयोविशेषणविशेग्यभायायोगाद्ब्रह्माभिन्नमिति प्रयोगानुप
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy