SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः तृतीये प्रतियोगित्वग्रहस्य भेदग्रहाधीनत्वात् / न च प्रतियोगित्वं घटादिस्वरूपमेव 'भेदस्य घटः प्रतियोगी'इति भेदेनानुभवात् / पञ्चम्यादिव्यतिरेकेण घटादिपदात्तत्प्रतीतेश्च / किं च यदि घटः पटः स्यात् तद्वदेवोपलभ्येतेति तर्क विनाऽनुपलब्धेरनन्यथासिद्धत्वाज्ञानानाभावरूपभेदनिश्चय इति कथं नान्योन्याश्रयः ? / तस्मान प्रत्यक्षेण भेदग्रहः संभवति। अत एव नानुमानादिकमपि तत्र प्रमाणम् / तस्मार्मिप्रतियोगिनोस्तज्ज्ञानयोश्च दुनिरूपत्वात स्वरूपतः प्रतीतेश्च विचारासह एवायमन्योन्याभावः कल्पितो भेदव्यवहारविषय इति / भेदस्य दुनिरूपत्वेऽभेदस्यापि तथात्वमित्याक्षेपः नन्वेवं भवदभिमतशास्त्रार्थाभेदो दुनिरूपः स्यात् / भेदाभावेन तत्प्रतियोगिकाभावस्यासंभवात् / अभेदेन प्रतिपन्नयोमिप्रतियोगित्वज्ञानं ततश्चाभेदज्ञानमिति परस्पराश्रयत्वाच्चेति चेत् न / ब्रह्मस्वरूपातिरिक्तभेदाभावस्याशास्त्रार्थत्वाद दुनिरूपताया इष्टत्वात् / अखण्डचिदानन्दस्य भेदाभावस्वरूपस्य ब्रह्मण एव शास्त्रतात्पर्यभूमित्वात् / द्वितीयं दूषयति न चेति / किञ्च प्रतियोगित्वस्य घटादिमात्रत्वे घटादिवदेव प्रथमादिविभक्तयन्तघटादिपदैरपि तत्प्रतीतिः स्यात्, न च सास्तीत्याह-पञ्चमीति / अपि च घटे पटाभेदानुपलब्धेरनन्यथासिद्धत्वनिश्चयं विना तदभावरूपभेदनिश्चयायोगः, अनुपलब्धेरनन्यथासिद्धत्वनिश्चयश्च यदि घटः पट: स्यात् पटवदेवोपलभ्येतेतितर्कावतारे सत्येवेति / तथा च तत्पूर्व घटे' पटभेदाग्रहे पटवदिति पटसादृश्यग्रहायोगेन तद्धटिततर्कावताराद्यभावापातात् तद्भेदग्रहस्यापि भेदग्रहपुरस्सरतर्कसहकृतानुपलम्भपुरः सरत्वेऽन्योन्याश्रयादिदोषो दुनिवार इत्याह-किं चेति / प्रत्यक्षसहकारिणो योग्यानुपलम्भादेविशेषणज्ञानादेश्चाभावान्न तत्प्रमाणको भेद इत्युपसंहरति-तस्मादिति / उपजीव्यभेदप्रत्यक्षस्य प्रमाणत्वासिद्धेरेव तदुपजीवकानुमानादिकी न तत्र मानमित्याह-अत एवेति / भेदस्याप्रामाणिकत्वे कथं साधनादिभेदव्यवहार इत्याशक्य स्वाप्नव्यवहारवदनिर्वचनीयभेदविषय एवेत्याह-तस्मादिति / / ___ भेदस्य दुनिरूपत्वे तन्निरूपप्याभेदस्यापि दुनिरूपत्वाच्छून्यमेव तत्त्वं परिशिष्येतेति चोदयति--नन्वेवमिति / / किं च किं भिन्नयोरभेदं प्रति मित्वप्रतियोगित्वेऽभिन्नयोर्वा ? नाद्यः / व्याघा. तादित्यभिप्रेत्य द्वितीयं दूषयति-अभेदेनेति / किं ब्रह्मातिरिक्तस्य भेदविरहात्ममात्रस्वभावस्याभेदस्य दुनिरूप्यत्व नुच्यते उत सच्चिदानन्दमात्रब्रह्मस्वभावाभेदस्य ?, आद्ये इष्टापत्तिरित्याह--न ब्रह्मति / द्वितीये सच्चिदात्मकस्य स्वतो निष्प्रतियोगिकत्वात्सति भेदभ्रमे भेदाधिष्ठानरूपतदभावतयाऽपि शास्त्रेण स प्रतिपाद्यते / तदभावे तु सदादिरूपेणैवेति नोक्तदोषावकाश इत्यभिप्रेत्याह-अखण्डेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy