SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 56 सटीकाद्वैतदीपिकायाम् भेदज्ञानासंभवेन दूषणम् किं च भेदज्ञानमपि न संभवति / किमेतौ परस्परभिन्नाविति भेदधीः, अयमिदं न भवति अयमस्माद् मिन्न इति वा ? / सर्वथाऽप्यन्योन्याश्रयः / प्रथमे द्वित्वज्ञानस्य भेदज्ञानाधीनत्वात्, परस्पराभावस्यापि भेदरू पत्वात् / द्वितीये भेदज्ञानं विना परस्य तद्विशिष्टज्ञानायोगात् / एवं भेदत्वज्ञानं विना तद्विशिष्टज्ञानानुपपत्तेः / न च भेदत्वमनुपस्थितमेव प्रकारः। परमते पूर्वोपस्थितस्यैव प्रकारत्वात् / अन्यथा विशेषणज्ञानमन्यत्रापि हेतुर्न स्यात् / ततश्च त्वदभिमतं निर्विकल्पकं न स्यात् / तदसंभवमेवोपपादयितुं भेदसाधकज्ञानं विकल्पयति--किमेताविति / त्रिविधज्ञानसापेक्षत्वादसंभव इत्याह-सर्वथेति / ___ एतौ भिन्नावित्यत्र धर्मिविशेषणतया द्वित्वानुभवात्प्रथमं तज्ज्ञानं वक्तव्यं द्वित्बाश्रयभेदे ज्ञात एव द्वित्वज्ञानमिति परस्पराश्रयादित्याह-प्रथम इति / न च द्वित्वोत्पत्तिमात्रेण तज्ज्ञानसंभवान्न तस्य भेदज्ञानापेक्षेति वाच्यम् / भिन्नाश्रितत्वेनैकत्वद्वयज्ञानमन्तरेण द्वित्वोत्पत्तरेवायोगात् / अन्यथा दूरस्थवनस्पत्योरपि स्वरूपेणैकत्वद्वयज्ञानात् द्वित्वोत्पत्तिप्रसङ्गात् / तत्राभेदभ्रमो द्वित्वोत्पत्तिप्रतिबन्धक इति चेतहि यत्संशयव्यतिरेकनिश्चयौ यत्र प्रतिबन्धको तन्निश्चयस्तद्धेतुरिति न्यायेन भेदनिश्चयस्य द्वित्वोत्पत्तिहेतुत्वात्तदभावे तदुत्पत्तिरेवायुक्ता। द्वित्वस्य यावद्रव्यभावित्वमते तु तज्ज्ञानमेवाश्रयभेदज्ञानं विनाऽनुपपन्नम् / अन्यथा दूरस्थवनस्पत्योरपि तज्ज्ञान प्रसङ्गादिति भावः / किं च परस्परं भिन्नाविति परस्परनिरूप्यो भेदः प्रतीयते / परस्परशब्दश्चान्योन्यशब्दपर्यायः, अन्यशब्दार्थश्च भेदविशिष्ट एवेति भेदज्ञाने भेदज्ञानमित्याहपरस्पराभावस्येति / द्वितीये भेदस्य विशेषणतया भानात् परमते विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वनियमाद् भेदनिर्विकल्पकायोगात्तद्विषयविशिष्टज्ञानान्तरमेव विशेषणज्ञानतया कारणं वाच्यम् / एवं तस्य तस्य विशेषणज्ञानतया भेदविशिष्टज्ञानान्तरापेक्षणादनवस्था इत्यभिप्रेत्याह- द्वितीय इति / एतद् दूषणं पक्षत्रयेऽपि तुल्यम् / किं च पक्षत्रयेऽपिभेदत्वविशिष्टतया भेदस्य भानात्तत्पूर्वभेदत्वज्ञानं विशेषणज्ञानतया वक्तव्यम् / सप्रतियोगिकभेदत्वेनिर्विकल्पायोगाद्विशिष्टज्ञानान्तरमास्थेयम् / ततश्च पूर्ववदनवस्था, इत्यभिप्रेत्याहएवमिति / नन्वत एव भेदत्वं पूर्वमज्ञातमेव विशेषणतया भातीत्यङ्गीक्रियत इति चेत न / तव मते विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वनियमेन तथाङ्गीकारायोगादित्याहन चेति / तहि भेदज्ञाननिर्वाहायोक्तनियम एव त्यज्यत इत्याशक्य तथा सत्येक संधिसतोपरं प्रच्यवते इत्याह-अन्यथेति / तृतीयेऽस्मादितिपञ्चम्यर्थः प्रतियोगित्वं किं भेदनिरूपयो घटादिधर्मस्तत्स्वरूपं वा?। आये भेदप्रतीतौतन्निरूपितप्रतियोगित्वधीः, ततश्च तद्विशेषितभेदधीरिति परस्पराश्रय एवेत्याह-तृतीय इति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy