________________ द्वितीयः परिच्छेदः श्रयत्वज्ञाने पूर्वभेदाश्रयत्वज्ञानमपेक्ष्यते इत्यन्योन्याश्रयादिरिति वाच्यम् / पटादेअंदाश्रयत्वज्ञानाभावेऽपि तन्निष्ठभेदस्य प्रमितत्वात् / न हि भेदज्ञानेपटनिष्ठतदाश्रयत्वज्ञानं हेतुरिति चेत् / न, भेदमित्वस्यानिरूपणे इदमस्माद् भिन्नमिदं नेति वा व्यवस्थाया आकस्मिकत्वप्रसङ्गात् / एतेन माभूभेदस्य केन चिदाश्रयेण सम्बन्धः, नैतावता तदभावः / अनाश्रितानामपि पदार्थानां भूयसां दर्शनादिति प्रत्युक्तम् / अनाश्रितभेदस्याप्रतीतेः, इदमिदं नेति प्रतीतेश्च / अनाश्रितभेदसिद्धावपि जीवब्रह्मर्मिकभेदस्यानात्मधर्मिकभेदस्य चासिद्धश्च / तस्मादसौ स्वतन्त्रो नाभेदविरोधीति न भेदः / आकाशादौ द्रव्यपरिभाषेव तस्यापि भेदपरिभाषायां वा नास्माकमनिष्टम् / भेदज्ञानसंभवात्तस्य प्रामाणिकत्वसिद्धिरित्याह-पटादेरिति / भेदज्ञाने तदाश्रयत्वज्ञानानपेक्षामेव दर्शयति-न हीति / भेरज्ञानस्य प्रतियोगिस्मरणसहकृतानुपलब्धिसहितप्रत्यक्षमात्रजन्यत्वादित्यर्थः / भेदाश्रयानिरूपणप्रयुक्तभेदज्ञानप्रमात्वविप्रतिपत्तिर्भेदाश्रयनिरूपणेन निरसनीया / तदनिरासे इदमस्माद् भिन्नमिदं नेतिव्यवस्थाऽयोगात् / तथा च प्रतियोग्यतिरिक्तः प्रतियोगितावच्छेदकात्यन्ताभावाश्रयो वा भेदाश्रयः प्रतियोगितावच्छेदकात्यन्ताभावश्च प्रतियोग्यतिरिक्ते एव वर्तत इत्युक्तौ भेदाश्रयस्य प्रतियोग्यतिरिक्तत्वनिश्चये सत्याश्रयानिरूपणाभावाद् भेदज्ञानस्य प्रमात्वनिश्चयः तन्निश्चये •च भेदाश्रयतया प्रतीतस्य प्रतियोग्यतिरिक्त वनिश्चय इति परस्पराश्रयादिप्रसङ्गान्न भेदस्य प्रामाणिकत्वसिद्धिरित्यभिप्रेत्य दूषयति-न भेदेति / ___ ननु भेदाश्रयानिरूपणेऽपि तस्य न पारमार्थिकत्वक्षतिः। आत्मवत्स्वतन्त्रस्यापि तस्य सत्यतोपपत्तेरित्यत आह-एतेनेति / . आत्मवत्स्वतन्त्रभेदे किं श्रुतिर्मानमुत प्रत्यक्षादिः ? / नाद्यः / श्रुतौ कुत्रापि स्वतस्त्रभेदाश्रवणादित्याह-अनाश्रितेति / प्रत्यक्षादिना साश्रयस्यैव भेदस्य प्रतीतेन स्वतन्त्रभेदस्तद्विषय इत्याह -इदमिति / ननु सत्तावत् प्रत्यक्षादिसिद्धभेदस्याश्रयानिरूपणादेव स्वातन्त्र्यसिद्धिरितिचेत् / न, तस्याश्रितत्ववत् स्वरूपस्याप्यपारमार्थिकत्वेऽपि प्रत्यक्षादितः प्रतीत्युपपत्तिः तत्सत्यत्त्वमङ्गीकृत्याप्याह--अनाश्रितेति। साश्रयस्यैव भेदस्य स्वाश्रये स्वप्रतियोग्यभेदविरुद्धत्वात्स्वतन्त्रासिद्धित्वात्स्वतन्त्रभेदेऽपि तादृशभेदस्य जीवब्रह्मणोरसिहेर्न तदभेदानुपपत्तिरित्यर्थः। किं चाभेदविरोधिन एव भेदव्यवहारविषयत्वात् अस्य चातथात्वान्न भेदत्वमपीत्याह-तस्मादिति / तत्र लौकिकानां भेदव्यवहाराभावेऽपि परीक्षकाणां सोऽस्तीत्याशक्य तस्य परिभाशमात्रत्वात्तावता न तस्य भेदव्यवहारविषयत्वमित्याहआकाशादाविति / भेदज्ञानस्वरूपपर्यालोचनयाऽपि भेदप्रमा न संभवतीत्याह-किं चेति /