________________ 54 सटीकाद्वैतदीपिकायाम् ननु प्रतियोगितावच्छेदकधर्मात्यन्ताभाववति भेदस्तिष्ठतीति चेत तर्हि तदत्यन्ताभाव एव क्व वर्तते इति निरूप्यताम् / न हि मिनिरूपणमन्तरेण धर्माणां प्रामाणिकत्वं संभवति। यत्र प्रमीयते तत्रेत्युक्तौ दत्तो दोषः। प्रतियोगिदेशान्यदेशेऽत्यन्ताभावो वर्तते इति चेत् / न, तथा सति तयोरन्योन्यज्ञानाधीनज्ञानत्वेनान्यतरस्याप्यसिद्धयापातात् / अत एव प्रतियोगिव्यतिरिक्त तदन्योन्याभाव इति प्रत्युक्तम् / व्यतिरेकस्यवान्योन्याभावत्वाद् आत्माश्रयाद्यापत्तेः। अन्योन्याश्रयपरिहारेण पूर्वपक्षः तन्निरासश्च ननु नान्योन्याश्रयादिदोषः। न हि भेदो भेदेन जन्यते, न वा ज्ञायते / न वा तदाश्रयत्वे धर्मिणस्तदपेक्षा। अनादिभेदाश्रयत्वस्याप्यनपेक्षत्वात् / न च भेदा भेदाश्रयवदत्यन्ताभावाश्रयस्था यसंप्रतिपन्नत्वात्सोऽपि वक्तव्य इत्याह-तीति / अत्यन्ताभावस्य प्रामाणिकत्वादाश्रयनिरूपणं विना किं हीयत इत्याशङ्वाह -न हीति / तद्वत्तया प्रमीयमाणत्वं तदाश्रयत्वप्रयोजकमित्यङ्गीकारे सुषुप्त्यादौ तदाश्रयो न स्यादित्यादिदोषापत्तिरित्याह-तत्रेति / नन्वत्यन्ताभावस्य यः प्रतियोगो तदधिकरणप्रतियोगिकभेदवत्त्वं तदाश्रयतावच्छेदकमिति शङ्कते-प्रतीयोगीति / एवं सति घटभेदे सिद्धे तदवच्छेदेन घटत्वात्यन्ताभावसिद्धिः, तत्सिद्धौ च त दवच्छेदेन घटभेदसिद्धिरिति परस्पराश्रयः स्थादित्याह-न तथा सतीति / किं च परमते आकाशाद्यत्यन्ताभावस्थ प्रतियोगिदेशाप्रसिद्धया तदन्यदेशस्याप्रसिद्धत्वेनाऽनाश्रितत्वं स्यादिति द्रष्टव्यम् / ननु घटव्यतिरिक्त एव घटान्योन्याभावाश्रयः / तथा च न घटत्वात्यन्ताभावापेक्षेत्यत आह-अत एवेति / अतः शब्दार्थमेवाह--व्यतिरेकस्येति / यो घटभेदः पटाश्रितः तद्विशिष्टस्येव पटस्य तदाश्रयत्वे आत्माश्रयः / भेदान्तरविशिष्टे स चेत्सोऽपि भेद एतभेदविशिष्टे वर्तते चेदन्योन्याश्रयः / भेदान्तरविशिष्टे चेच्चक्रकापत्तिः / तस्यापि भेदान्तरविशिष्टाश्रयत्वेऽनवस्था स्यादित्यर्थः // ___ ननूक्तान्योन्याश्रयादिर्न दोषः / भेदस्याजन्यतया तदुत्पत्तिप्रतिबन्धकत्वाभावात् प्रतियोगिस्मरणसहकृतानुपलब्ध्यादिनैव तत्तज्ज्ञानसंभवाद् भेदज्ञाने भेदज्ञानानपेक्षणात्, ज्ञप्तिप्रतिबन्धकत्वाभावाच्च / उत्पत्त्यादिप्रतिबन्धक एव हि परस्पराश्रयत्वादिदोषः, अन्यथा प्रमेयत्वाभिधेयादीनां परस्पराश्रयता न स्यादित्यभिप्रेत्य शङ्कते-नन्विति / . नन् घटेतरस्य घटभेदाश्रयत्वे तदपेक्षास्तीति भेदाश्रयत्वे परस्परापेक्षेति शनांनिराकरोति--न वेति / आकाशादौ घटभेदाश्रयत्वस्यानादित्वान्न तत्र घटभेदापेक्षा, पटादिकार्यस्यापि स्वसत्तामात्रेण तदाश्रयत्वात्तत्रापि न तदपेक्षेति भावः / ननु घटभिन्नस्य घटभेदाश्रयत्वाभिधाने भिन्नत्वज्ञानं विना भेदाश्रयत्वज्ञानायोगातदाश्रयत्वज्ञप्तौ परस्पराश्रयादिर्दोष इत्यत आह-न चेति / घटादेर्भेदाश्रयत्वाज्ञानेऽपि तज्ज्ञाननिरपेक्ष