SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 53. द्वितीयः परिच्छेदः / प्रथमेऽपि स कि भावोऽभावो वा नाग्रिमो भवेत् / तस्याभावेन संबन्धाभावान्नान्त्योऽनिरूपणात् // विशिष्टज्ञानहेतुत्वं संबन्धान्तरमन्तरा। स्वरूपसंबन्ध इति ब्रूषे दोषं तदा शृणु // अतीन्द्रियेष्वभावस्य संबन्धो न भवेत् तदा। विषयत्वविवक्षायामप्रमाऽपि प्रमा भवेत् // विशिष्टधीगोचरत्वसत्त्वात्पुरुषभेदयोः / स्वरूपसंबन्धानिरूपणम् अथ संबन्धान्तरमन्तरा विशिष्ट प्रमागोचरत्वं स्वरूपसंवन्ध इति चेत् / न, घटे घटभेदबुद्धरपि तव मते प्रमात्वप्रसङ्गात् / न ह्यसंबद्धभावाभावस्वरूपद्वयविषयविज्ञानं किञ्चित्प्रमा किश्चिन्नेति व्यवस्था युक्ता। विशिष्टबुद्धः स्वविषयत्वायोगाच्च। एवं भेदादिविकल्पेन स्वरूपसंबन्धं दूषयित्वा तल्लक्षणमप्यनूद्य दूषयतिविशिष्टेति / संयोगसमवाययोरतिव्याप्तिवारणाय संबन्धान्तरेत्युक्तम्। परमाण्वादावभावज्ञानस्य परोक्षत्वेन तस्य विषयाजन्यत्वात् परमाण्वादेस्तद्गताभावस्य च विशिष्टधीजनकत्वाभावात्संबन्धो न स्यादित्याह--अतीन्द्रियेष्विति / ननु हेतुत्वपदस्थाने विषयत्वपदं प्रक्षिप्यते / तथा च परमाण्वादेरपि विशिष्टधीविषयत्वानोक्तदोष इत्याशङ्कामनुवदतिविषवत्वेति / किमत्र विशिष्टज्ञानमात्रविषयत्वं विवक्षित मुत विशिष्टप्रमाविषयत्वम् / आद्य चत्रे चैत्रभेदज्ञानमपि प्रमा स्यात् विशिष्टधीगोचरत्वरूपतभेदसंबन्धस्य तत्रापि सत्त्वादित्याह-अप्रमाऽपोति / द्वितीयं शङ्कते-अथेति / भेदज्ञानस्य प्रमात्वे सिद्धे तद्विषयत्वरूपसंबन्धसिद्धिः, तत्सिद्धौ च भेदविशिष्टज्ञानस्य प्रमात्वसिद्धिरिति अन्योन्याश्रयः स्पष्ट इत्यभिप्रेत्य दूषणान्तरमाह-न घट इति / भेदज्ञानोत्पत्तेः पूर्व घटभेदस्य घटे पटे च संबन्धविशेषाभावादुभयत्रापि तज्ज्ञानं प्रमा स्यादप्रमा वा स्यादित्याह-न ह्यसंबद्धति / किं च विशेषण-विशेष्य-तत्संबन्ध-विषयज्ञानस्यैव विशिष्टज्ञानत्वात्तद्विषयभूतसंबन्धस्य विशिष्टप्रमाविषयत्वरूपत्वे स्वस्यैव स्वविषयत्वप्रसङ्गः। वेद्यज्ञानवादे च तदनुपपन्नमित्यभिप्रेत्याह-विशिष्टबुद्धेरिति / ___ यस्य भेदस्य यत् प्रतियोगितावच्छेदकं तदत्यन्ताभावरतदाश्रयतावच्छेदक इति शङ्कते-नन्विति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy