SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 52 सटीकाद्वैतदीपिकायाम् यत्र यस्यास्ति सत्ता तज्ज्ञानं तस्य भवेत्प्रमा। प्रमाधीनार्थसत्तायां नान्योन्याश्रयता कथम् // नन्वेवं कुम्भकुड्यादि कुत्र वर्तत इत्यपि / चोद्यं नावतरीतति मायावादे कथंचन // स्थाणौ स्थाणुभिदाज्ञानं प्रमा वा न भवेत्कथम् / भेदप्रमाया विषयो धर्मीभेदश्च नाधिकः // सम्बन्धोऽप्यधिको भाति प्रमायामिति चेत्स कः / संयोगादेरयुक्तत्वात्ततोऽन्यस्याप्रसिद्धितः॥ स्वरूपयोगोऽभावेन भावस्यास्तीति चेन्मतम् / न, तद्रूपात पृथक्कि वा नान्त्ये भ्रान्तिरपि प्रमा॥ तत्सिद्धौ च तद्विषयघटे पटभेदसत्त्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः / उक्तन्यायेन घटाद्याश्रयस्यापि दुनिरूपत्वाद्घटादेरपि सत्त्वं न स्यादिति चोद्यमिष्टापत्त्या परिहरति नन्वेवमित्यादिना / मायावादे घटादिकं यत्र प्रतीयते स एव तस्याश्रयः, घटभ्रान्तिविषयस्याप्यनिर्वचनीयघटाश्रयत्वाङ्गीकारादिति भावः। किं च भेदप्रमायाः स्थाननियामकत्वे स्थाणौ स्थागुभेदज्ञानस्यापि प्रमात्वसंभवात् तत्रापि तद्भेदः स्यादित्यभिप्रेत्याह--स्थाणाविति / पुरुषे स्थागुभेदप्रमाया यो विषयः तस्यात्राभावात्कथं प्रमात्वमित्याशङ्क्याह - भेदेति / तथा च स्थागौ स्थाणुभिदाज्ञानस्यापि स्थाणुरूपो धर्मी तभेदश्च विषयः, तयोश्च सत्त्वात्तज्ज्ञानमपि प्रमैवेत्यर्थः / पुरुष स्थाणुभेदस्य संबन्धोऽपि तद्विषयः, स च तत्रास्ति / स्थाणौ तु स नास्तीति कयं तज्ज्ञानं प्रमेति शङ्कते-संबन्धोऽपीति / स्थाणुभेदस्य पुरुषेण किं संयोगः संबन्धः, समवायो वा, अन्यो वेति विकल्पयति-स क इति / आद्यौ दूषयति--संयोगादेरिति / द्रव्ययोरेव संयोगाद् भावयोरेव समवायाच्चेत्यर्थः / तृतीयं दूषयति-ततोऽन्यस्येति / ननु ज्ञानेच्छादौ स्वविषयेण संयोगाद्यतिरिक्तः स्वरूपसंबन्धः प्रसिद्धः, स एव भदभेदिनोरिति शङ्कते--स्वरूपेति / उक्तशङ्का निषेधति नेति / तत्र हेतुं वक्तुं स्वरूपसंबन्धः किं संबन्धिभ्यां भिन्नोऽभिन्नो वेति विकल्पयति-तद्रपादिति / द्वितीये स्थाणुतभेदसंबन्धस्यापि तद्रूपस्य सत्त्वात् स्थाणौ तद्भेदधीः प्रमा स्यादित्याह--अन्त्य इति / आद्येऽपि दोषं वक्तुं विकल्पयति--प्रथमेऽपीति / प्रथमं दूपयति--नाग्रिम इति / तत्र हेतुमाह-तस्येति / भावस्याभावेन सम्बन्धाभावेन तदाश्रितत्वायोगात् तत्संबन्धत्वमप्यनुपपन्नमित्यर्थः / द्वितीये प्रतियोगिनो दुनिरूपत्वात्तादृशाभावोऽपि दुनिरूप इत्याहनान्त्य इति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy