________________ 51 द्वितीयः परिच्छेदः अन्योन्याभावग्रहस्थले संसर्गाभावग्रहसामग्रयाः समारोपघटिताया अपि सुलभत्वात् तदुभयाभावस्य नियमेन युगपद् ग्राह्यत्वे च त्वदुक्तसमारोपे न किञ्चिन्मानमस्ति। अत एवादृष्टादिप्रयुक्तं कदाचिद् घटत्वाभावज्ञानं कदाचिद् घटभेदज्ञानं चेति प्रत्युक्तस् / त्वदुक्तारोपं विनापि ततस्तदुपपत्तेः / भेदनिरासकश्लोकाः किं चास्य घटभेदस्य स्थानं भेदिभिरीर्यताम् / यत्र सत्तां भिदा लब्ध्वाऽसंकीर्णं कुरुते जगत् // यत्र प्रतीयते भेदस्तदेवास्याऽऽस्पदं यदि / अप्रतीतौ सुषुप्त्यादौ विश्वमेकं भवेत्तदा // यदा कदाचिद्धिषणा तस्य स्थाननियामिका। इति चेत् पुरुषेऽपि स्यात्तद्भेदस्तत्प्रतीतितः // यथार्थानुभवो यत्र भेदस्यास्पदमेव तत् / इति चेत् नूनमायातो दुष्टात्माऽन्योन्यसंश्रयः // तीभावद्वयस्यापि नियमेन युगपद् ग्रहस्तत्राह-तदुभयेति / एकैकाभावस्यैव प्रतीत्यन्यथानुपपत्त्यैव ह्यारोपभेदस्त्वया कल्यः। प्रतीतियोगपद्ये च स एव न सिद्ध्यति / तरसिद्धौ च तद्धेतुकज्ञानविषयत्वलक्षगाभाववैलझण्यमपि न सिद्व्यतीत्यर्थः / उभयज्ञानकारणारोपे सत्यप्यदृष्टेश्वरादिवशात्कदाचिकिंचित् ज्ञानमित्याशङ्ख्याह-अतएवेति / अतः शब्दार्थमेवाह त्वदुक्तेति / भेदाश्रयस्यापि दुनिरूपत्वाद् भेदो मिथ्येत्यभिप्रेत्य पाठसौकर्याय श्लोकराश्रयदूषणानि संगृह्णाति-किञ्चेत्यादिना। भेदिभिः-भेदसत्यत्ववादिभिः। आश्रयानिरूपणेऽपि भेदसत्तायाः किमायातमित्यत आह-यत्रेति / स्वाश्रये स्वप्रतियोग्यभेदविरोधिस्वभावस्तत्तद्धर्मव्यवस्थापको जगत्यसंकीर्णव्यवहारहेतुश्च भेदस्तवाभिमतः, स चाश्रयाभावे न सिद्धयतीति भावः / यो भेदो यत्र प्रतीयते स एव तस्याश्रय इति शङ्कते-यत्रेति / किं भेदवत्तया प्रतीयमानत्वविशिष्टो भेदाश्रयः, तदुपलक्षितो वा ?: आद्यं दूषयति--अप्रतीताविति / द्वितीयं शकते--यदेति / धिषणाभेदवत्तया ज्ञानम् / अत्रापि किं भेदवत्ताज्ञानमाश्रयत्वनियामकमुत तत्प्रमा ? / आये चैत्रे एव चैत्रभेदभ्रमस्य कदाचित्संभवात्सोऽपि स्वप्रतियोगकभेदाश्रयः स्यादिति दूषयति-पुरुषेऽपीति / द्वितीयमनूद्य दूषयति--यथार्थेत्यादिना / अन्योन्याश्रयमेव विशदयति--यत्रेति / घटे पटभेदसत्त्वे तद्विषयज्ञानस्य प्रमात्वसिद्धिः,