SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् न च घटत्वात्यन्ताभाव एव घट भेदः / घटत्वमिह नारित, इदं घटो नेति विलक्षणतया भिन्नप्रतियोगितया चानुभूयमानयोरेकत्वानुपपत्तेः। संयोगात्यन्ताभाववदेकस्मिन्नपि तदत्यन्ताभावोपपत्तश्च। अन्योन्याभावधीसामग्रया अपि सत्त्वात् कथं तदेकनियम इति चेत् / न, तदा घटत्वविशिष्टघटस्मरणाभावात् / सत्त्वे वा कथं कदाचिदयं घटोन, कदाचिन्नात्र घटत्वमिति प्रतीतिः // ननु यत्र घटत्वविशिष्टघटस्मरणानन्तरं घटत्वारोपस्तत्रान्योन्याभावधीसामग्री बलवती। यत्र तु घटत्वस्मरणात तदारोपः, तत्र तदभाब एव प्रतीयते इति चेत् / न, घटत्वविशिष्टस्मरणेऽपि घटत्वारोपे एकदैव घटघटत्वयोरारोपप्रसङ्गात् / एतेन घटघटत्वे इति स्मरणानन्तरं यत्र घटत्वारोपस्तत्रान्योन्याभावग्रह इति प्रत्युक्तम्। घटप्रतियोगिकोऽन्योन्याभावोऽनुभूयते / तथा च प्रतियोगिभेदात्तदवच्छेदकभेदाच्च नानयोरैक्यमित्यर्थः / किं च घटत्वपटवाधिकरणाभेदेऽपि मूलावच्छिन्नवृक्षे कपिसंयोगाभाववत् पटत्वावच्छिन्ने घटत्वाभावसंभवान्नासौ भेदोऽभेदविरोधीत्याह-संयोगेति / नन्वधिकरणे प्रतियोगितावच्छेदकारोपस्पान्योन्याभावधियं प्रत्यपि हेतुत्वात्कथं घटत्वात्यन्ताभाव एव गृह्यते न घटान्योन्याभाव इत्युक्तमिति शङ्कते-अन्योन्याभावेति / प्रतियोगितावच्छेदका रोपेऽपि प्रतियोगिस्मरणलक्षणकारणाभावान्नान्योन्याभावधीरिति परिहरति-न तदेति / ननु घटघटत्वयोरेकानुभवगोचरत्वाद् घटत्वस्मरणेघटस्मरणमप्याव यकमित्याशङ्कय तथात्वे सामग्रीद्वयसाहित्यनियमान्नियमेनोभयज्ञानं स्यात् न कदाचित्किंञ्चिज्ज्ञानमिति दूषयति-सत्त्वे वेति / - ननु घटविशेषणतया स्मृतघटत्वारोपोऽन्योन्याभावधीहेतुः, तद्विशेष्यतया स्मृतघटत्वारोपस्तु घटत्वात्यन्ताभावधीहेतुरिति नोक्तदोष इति चोदयति-ननु यत्रेति / अन्योन्याभावधीहेतुघटत्वारोपनिमित्तस्मरणे घटस्यापि विषयत्वात् तस्याप्यारोपः स्यात् / तथा च प्रतियोग्यारोपस्यात्यन्ताभावधीहेतुत्वाद् घटान्योन्याभावप्रतीतिसमये (घटत्वात्यन्ताभावधीसामग्रयभावेन तदभावेऽपि नियमेन) घटात्यन्ताभावधीः स्यादित्यभिप्रेत्यदूषयति--न घटत्वेति / ननु घट वशेषणकघटत्वविशेष्यकस्मरणं घटत्वारोप एव हेतुः / तेन च घटान्योन्याभावीरित्याशय तदा घटस्मरणस्यापि घटारोपद्वारा तत्संसर्गाभावधीहेतोर्घटत्वाभावधीहेतोस्तदारोपस्य च सत्त्वान्नान्योन्याभावधीव्यवस्थेत्याह-एतेनेति / अस्तु
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy