SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 49 न, ग्राहकभेदेऽपि प्रतियोगितदवच्छेदकभेदाभावेन ग्राह्यभेदाभावात् / अभावप्रतीतेस्त्वदभिमतारोपाजन्यत्वात् / तत्पूर्व तत्सत्त्वे प्रमाणाभावाच्च / नचाभावप्रतीतिवलक्षण्यमेव पूर्वं तत्सत्त्वे प्रमाणम् / विषयवैलाण्यादेव ज्ञानवैलक्षण्योपपत्तेः / अन्यथा तत्र विलक्षणारोपजन्यत्वस्यैव दुर्ग्रहत्वात् / अभावग्रहसामग्रोवेलक्षण्यादभावभेदशंकानिरासौ ननु प्रतियोगिज्ञानादेरविशेषात्कदाचिद् इदमिदं न, इदमिह न इति प्रतीतिविचित्रारोपहेतुकल्पयति,तदन्यस्य प्रतीतिव्यवस्थापककारणस्याभावादिति चेत्। न, प्रतियोगितावच्छेदकारोपाभ्युपगमे तदभावस्यैव ग्रहणप्रसङ्गनान्योन्याभावधियोऽभावप्रसङ्गात्। उक्तारोपस्याभाव ग्राहकत्वमभ्युपेत्यैतदुक्तं, तदेव नास्तीत्याह-अभावेति / अभावप्रतीतेः प्रतियोगिस्मरणसहकृततदनुपलम्भविशेषमात्रजन्यत्वान्न तदारोपापेक्षेत्यर्थः / नन्वप्रसक्तप्रतिषेधोऽनुपपन्न इत्युक्तं, तबाह-तत्पूर्वमिति / शाब्दस्यैव प्रतिषेधप्रत्ययस्य श्रोतृविपर्यासादेनिवृत्तिफलकस्य प्रसक्तिपूर्वकत्वनियमो, न त्वभावज्ञानमात्रस्येति भावः / मनु 'इदमिह न' 'इदमिदं न' इति ज्ञानवैलझण्यं विलक्षणकारणमन्तरेणानुपपद्यमानं तदुपपादकत्वेनोक्तारोपभेदमेव कारणत्वेन कल्पयति, कारणान्तरस्योभयत्रापि साधारणस्वादिल्याशक्यान्यथैवोपपत्त्या दूषयति-न चाभावेति / विषयवैलक्षण्यादेवेति / दुनिरूपविषयवैलक्षण्यादेवेत्यर्थः। आरोपभेदजन्यज्ञानविषयत्वमेव विषयवैलक्षण्यं, न त्वन्यदित्यत आह-अन्यथेति / आरोपभेदजन्यत्वस्य विलक्षणजन्यतावच्छेदकग्रहं विना दुर्ग्रहत्वात् / ज्ञाने च स्वतोवैलझण्याभावाद्विषयवैलझण्यप्रयुक्तमेव तद्वैलक्षण्यं वक्तव्यमित्यर्थः / ननक्तज्ञानवैलक्षण्यस्य विषयवैलक्षण्याधीनत्वेऽपि भूतलादौ विषयद्वयेसत्यपि इइमिह नेति ज्ञानकाले इदमिदं नेति ज्ञानाभावः सिद्धः। एवमि दमिदं नेतिज्ञानकाले इदमिह नेति ज्ञानाभावः / स च नियमेन कारणभावप्रयुक्तो वक्तव्यः / तत्र च कारणान्तरस्योभयत्रापि सत्त्वादुक्तारोपाभाव एव तत्प्रयोजक इति तस्याभावधीकारणत्वसिद्धिरिति चोदयति नन्विति / / प्रतियोगितावच्छेदकारोपेऽपि संसर्गाभावधीहेतुः प्रतियोग्यारोपोऽस्त्येव / अवच्छेदकस्य स्वात्यन्ताभावप्रतियोगित्वात् / तथा च तदत्यन्ताभावप्रतीतिरेव स्यान्न घटाद्यन्योन्याभावप्रतीतिरिति दूषयति-न प्रतियोगितेति / ननु घटत्वात्यन्ताभावस्यैव घटान्योन्याभावत्वात् तत्प्रतीतिरेव घटान्योन्याभावप्रतीतिरित्यत आह-न चेति / वैलक्षण्यमेवाह-भिन्नप्रतियोगितये ते / घटत्वमिह नेति घटत्वतावच्छिन्नघटत्वप्रतियोगिको ऽत्यन्ताभावोऽनुभूयते / इदं घटो नेति घटत्वावच्छिन्न
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy